________________
Shri Mahavir Jain Aradhana Kendra
१२ अ०
www. kobatirth.org
1]
प्रायश्चित्तकाण्डम् |
"प्राजापत्य क्रियाऽशको धेनुं दद्याद् द्विजोत्तमः ।
धेनोरभावे दातव्यं मूल्यन्तुल्यं न संशयः " -- इति मूल्यच्च यथाशक्ति देयम् । श्रतएव ब्रह्मपुराणे, - “गवामभावे निष्कं स्यात्तदर्द्ध पादमेव वा " - इति । यत्र यावत्मङ्ग्यया प्राजापत्यान्यावर्त्तनीयानि भवन्ति, तत्र तावत् माया गोदानान्यावर्त्तनीयानि । तदपि चतुर्विंशतिमते दर्शितम्"जन्मप्रभृति पापानि बहूनि विविधानि च । अर्वाक् तु ब्रह्महत्यायाः षड़ब्दं कृच्छ्रमाचरेत् ॥ प्रत्याम्नाये गवां देयं साशीति धनिनां शतम् ।
तथाऽष्टादशलक्षणि गायत्र्या वा जपेदुधः " - इति ।
मनूकरीत्या द्वादशवार्षिकस्य प्रत्यान्नायत्वेन षट्चिंशलक्षसंख्याकोगायचीजपः प्राप्नोति । कोटिसंख्याकस्तु चतुब्विंशतिमते एक
स्मर्य्यते,—
Acharya Shri Kailassagarsuri Gyanmandir
"गायत्र्यास्तु जपन् कोटिं ब्रह्महत्यां व्यपोहति । लक्षानौतिं जपेद्यस्तु सुरापानादिमुच्यते ॥
पुनाति हेमहत्तरं गायत्रीलचसप्ततिः । गायत्र्याः षष्टिभिर्लचेर्मुच्यते गुरुतल्पगः” - इति ॥
For Private And Personal Use Only
४७५
तथा सति परस्परविरोधः स्यादिति चेत् । एवं तर्ह्यनयेवानुपपत्त्या कोटिजपोन प्रत्यान्नायः, किन्तु दादशवार्षिकव्रतसमानविषयतया विकल्प्यते इति कल्पनीयम् । चान्द्रायणादीनां प्रत्याम्नायास्तत्रैव दर्शिताः,
' द्वादशवार्षिकप्राजापत्यस्य - इति शा० ।