________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
{१२५०।
श्राज्येनैव हि शालाग्नौ जुहुयादाहुतीः पृथक् ॥
श्राद्धं कुर्य्याद्तान्ते च गोहिरण्यादिदक्षिणम्” इति । यमोऽपि,
"पश्चात्तापो निवृत्तिश्च स्वानं चाङ्गतयोदितम् । नैमित्तिकानां सर्वेषां व्रतानां विधिपूर्वकम् ॥ गात्राभ्यङ्गं शिरोऽभ्यङ्गं ताम्बूलमनुलेपनम् ।
व्रतस्थोवर्जयेत् सव्वें यच्चान्यदलरागकृत्” इति । ग्टतौतस्य व्रतस्थाममापने प्रत्यवायमाह छागलेयः,
“पूर्वं व्रतं ग्टहीत्वा तु नाचरेत् कामतो हि यः ।
जीवन् भवति चण्डालो मृतः श्वा चाभिजायते” इति ॥ अथ पूर्वोक्तानां बतानां केनचिनिमित्तेनानुष्ठानाशको यथायोगं प्रत्याबाया उच्यन्ते। तत्र प्राजापत्यस्य प्रत्याखायाश्चतुर्विंशतिमते दर्शिताः,
"कृच्छ्रोदेव्ययुतं चैव प्राणयामशतव्यम् । तिलहोमसहस्रन्तु वेदपारायणं तथा ॥ विप्रा द्वादश वा भ्योज्याः पावकेष्टिस्तथैवष ।
अथवा पावमानेष्टिः समान्याहुर्मनीषिणः" इति ॥ स्मत्यन्तरेऽपि,
"कच्छ्रोऽयुतन्तु मायया उदवास* स्तथैवच ।
धेनुप्रदानं विप्राय सममेतच्चतष्टयम्" इति ॥ स्मत्यन्तरेऽपि,
* उपवास,-इति मु।
For Private And Personal Use Only