________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
पराशरमाधवः।
[१२ च ।
फलकृच्छ्रादीनां स्वरूपमाह मार्कण्डेयः,
“फलैमासेन कथितः फलकृच्छ्रोमनौषिभिः । श्रीकृच्छ्रः श्रीफलैः प्रोकः पद्मारपरस्तथा ! मासेनामलकैरेवं श्रीकृच्छ्रमपरं स्मृतम् । पत्रैर्मतः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते ॥
मूलकृच्छः स्मृतीमूलैम्तोयकृच्छ्रो जलेन तु"-दति । यदा बिल्वादिफलान्यंभसा काथयित्वा मासमेकं तदम्भः पिवति, नदा फलकृच्छ्रो भवति । यदा बिल्वपद्माक्षमूलानामन्यतमम्य क्वाथं मासं पिवेत्, तदा श्रीकृच्छ्रोभवति । यदा त्वेतेषां पत्रपुष्यमृलानां क्वाथं पिवेत्, तदा पत्रपुश्यमूलकृच्छ्राणि भवन्ति । वारुणीकृच्छ्रयोर्लक्षणमाह यमः,---
"ब्रह्मचारौ जितक्रोध श्रामिक्षोदकमलकान् । पिवेच्च नियताहारः कृच्छं वारुणमुच्यते ।। यहं पिवेत् तु गोमूत्रं व्यहं वै गोमयं पिवेत् ।
यहं वै यावक्रेनैव श्रीकळू ह्येतदच्यते” इति ।। मौम्यकृच्छ्रस्वरूपमाह याज्ञवल्क्यः,
"पिण्याकाचामतकाम्बुसक्तूनां प्रतिवामरम् । एकरात्रोपवामश्च कृच्छ्रः मौम्योऽयमुच्यते”-दति ।। श्राचामोदननिस्रावः। पिण्याकादौनां पञ्चानामेकैकं प्रतिदिनमुपभुज्य षष्ठेऽहन्युपवसेत्। एष सौम्य कृच्छ्रः। यत्तु जावान चतुरहव्यापी सौम्यकृच्छ्र इत्युकम्,* पुय्यः पुय्यस्त थोच्यत,-इति मु० |
For Private And Personal Use Only