________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ अ.।
प्रायश्चित्तकाण्डम् ।
१६५
क्षपयेदिति शेषः । यत्तु गौतमः । “अब्भक्षस्तृतीयः कृच्छातिकृच्छ”-इति। एकभक्तनकायाचितदिवसेषु यो भोजनकालः, तस्मिन्नेव काले केवलमुदकेन वर्त्तनं कृच्छ्रातिकृच्छ्रोभवतीति । तदेतच्छतविषयम् । प्रतिकृच्छ्रकृच्छ्रातिकृच्छ्रयोरपि प्राजापत्यकृच्छ्रोनेतिकर्त्तव्यता द्रष्टव्या । “एतेनैव कृच्छातिकृच्छौ व्याख्यातौ”-इति गोतमवचनात् । पराकलक्षणमाह यमः,
"दादशाहं निराहारो यातात्मा संशितव्रतः ।
कृच्छ्रः पराकनामेष सर्वपापप्रणाशनः" इति ॥ पर्णकृच्छ्रलक्षणमाह याज्ञवल्क्यः,
"पर्णदुम्बरराजीवबिल्वपत्रकुशोदकैः । प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः” इति ॥ पलाशोदुम्बरारविन्दबिल्वपर्णानामे कैकेन* कथितमुदकं प्रत्यहं पिवेत् । पर्णकृच्छ्रस्य लक्षणान्तरमाह यमः,- .
"एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः । क्वाथयित्वा पिवेदभिः पर्णकृच्छ्रोविधीयते"-इति ॥ यदा पलागादिपत्राण्येकीकृत्यांभसा क्वाथयित्वा त्रिरात्रोपवामान्ने कथितं तत् पिवेत्, नदा पर्णवच्छो भवतीत्यर्थः ।
* इत्यमेव पाठः सर्वत्र । बिल्वपर्णकुशानामेकैकेन,-इति तु भवितुं
युक्तम् । + इत्यमेव पाठः सर्वत्र । मम तु, पर्णकृच्छोऽभिधीयते,-इति पाठः
प्रतिभाति ।
59
For Private And Personal Use Only