________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
परापारमाधवः ।
[१२ छ ।
व्यम् । बहुप्रयासमाध्यत्वेनातिगुरुत्वात् । अथवा, येषां शूद्रादीनां मन्त्राधिकारोनोस्ति, तेषां जपहोमादिरहितं प्राजापत्यं वेदितव्यम्। अतएवोक्कमङ्गिरसा,
"तस्माच्छूटं समासाद्य मदा धर्मपथे स्थितम् ।
प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम्”-दति ।। येषां ब्राह्मणादीनां जपहोमादिवधिकारः, तेषां गौतमोकं वेदितव्यम् ।
अथातिकृच्छ्रः । तस्य लक्षणमुक्तं चतुर्विंशतिमते,__ “एकैकं ग्रासमश्नीयात् यहानि चौणि पूर्ववत् ।
अहं चोपवसेन्नित्यमतिकृच्छं चरन् द्विजः”- इति ॥ एकभकनकायाचितदिवसेषु नवस्खेकैकं ग्रासमनीयात् । व्यहचोपवसेत् । एवं चातिकृच्छ्रोभवतीत्यथः । यत्तु याज्ञवल्क्येनोकम्,
___ “अयमेवातिकृच्छ्रः स्यात् पाणिपूरानभोजने” इति ।
अयमेव प्राजापत्यवच्छ्र एकभक्तनकायाचितदिवसेषु नवसु पाणि पूरान्नभोजनयुक्तोऽतिकृच्छ्रो भवतीत्यर्थः। तदेतदशकविषयम् । पाणिपुरान्नस्य ग्रामपरिमितादनादधिकपरिमाणत्वात् ।
अथ कृच्छ्रातिकृच्छ्रः । तम्य लक्षणं याज्ञवल्क्येनोक्रम्,___ "कृच्छातिकृच्छः पयसा दिवसानेक विंशतिम्" इति। विष्णुरपि,
"कृच्छ्रातिकृच्छ्रः पयमा दिवसानेकविंशतिम्" इति ।
For Private And Personal Use Only