________________
Shri Mahavir Jain Aradhana Kendra
१२ ० ।]
www. kobatirth.org
प्रायवित्तकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
“पिण्याकं सक्तवस्तकं चतुर्थेऽहन्यभोजनम् । वासवै दक्षिणां दद्यात् सौम्योऽयं रुच्छ्र उच्यते " - इति ।
तदेतदशक्तविषयम् ।
अथ तुलापुरुषः । तत्र जाबालिः, -
" fuerrata तथाऽचामं तक्रं चोदकसतवः । चिराचमुपवासख तुलापुरुषउच्यते " - दूति ॥
व्याख्यास्यामः ।
सोऽयमष्टदिवससाध्यः । याज्ञवस्त्यस्तु पञ्चदशदिवससाध्यमात, - " एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् । तुला पुरुषइत्येवं ज्ञेयः पञ्चदशाहिक: " - इति ॥ एषां प्रकृतानां पिण्याकादीनां पञ्चद्रव्याणाम् । यमस्त्वेकविंश
तिदिवससाध्यमाह -
" श्राचाममय पिण्याकं तक्रं चोदकसक्नुकान् ।
त्र्यहं त्र्यहं प्रयुञ्जानो वायुभचत्र्यहृदयम् । एकविंशतिरात्रस्तु तुला पुरुषउच्यते " - इति ॥
तदेतत्त्रयं पापतारतम्यविषयतया व्यवस्थापनीयम् । श्रवेतिकर्त्तव्यतामाह हारीतः । “अथातस्त्रिणयनोक्तस्य तुलापुरुषस्य कल्पं
१६७
श्रयाज्ययाजनं कृत्वा प्राश्य मूत्रपुरीषयोः । श्रप्रतिग्रामादाय याजयित्वा विनिन्दितान् ॥ विनायकोपसृष्टस्य महाव्याधिहतस्य च ।
एतत् कृच्छ्रं तुलापुरुषं महापातकनाशनम् ॥ स्वर्गद्वारमिदं पुण्यं महादेवेन निर्मितम् ।
For Private And Personal Use Only