________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ १०
प्रायश्चित्तकाण्डम् ।
४६१
"मायं द्वाविंशतिर्यामाः प्रातः षड् विंशतिः स्मृताः ।
चतुर्विंशतिरयाच्याः परं निरशनं स्मृतम्" इति ॥' तत्परिमाणमपि तनैवोक्तम्,
“कुक्कटाण्डप्रमाणन्तु यथा वाऽऽस्यं विशेत् सुखम्"-इति। चतुर्विंशतिमते प्रकारान्तरेण सङ्ख्या श्रूयते,
"प्रातस्तु द्वादश ग्रासाः सायं पञ्चदशैव तु ।
अयाचिते च दावष्टौ परं* वै मारुताशनः” इति ॥ अत्र शत्यपेक्षया व्यवस्था द्रष्टव्या । श्रापस्तम्बस्तु चतुरः पादकृच्छ्रान् कृत्वा तेषां वर्णभेदेन व्यवस्थामाह,
"यहं निरशनं पादः पादचायाचितं अहम् । मायं अहं तथा पादः पादः प्रातस्तथा अहम् ॥ प्रातःपादं चरेच्छूट्रः सायं वैश्यस्य दापयेत् ।
अयाचितन्तु राजन्ये त्रिरात्रं ब्राह्मणे स्मृतम्”-दूति । अर्द्धकृच्छ्रपादोनकच्छ्रयोरपि स्वरूपं मएवाह,_ “प्रायं प्रातर्दिनार्दू स्यात् पादोनं नकवर्जितम्" इति।
अयमर्थः । अयाचितोपवासयोस्त्यहदयानुष्ठानेनार्द्धच्छो भवति। नकव्यहव्यतिरिक्तव्यहत्रयानुष्ठानेना पादोनकृच्छ्रो भवति । अर्द्धवच्छ्रप्रकारोऽपि तेनैवोक्तः,
__“मायं प्रातस्तथैवोक्त दिनदयमयाचितम् ।
* त्राहं,-इति मु.। + नक्तव्यतिरिक्तन्यहानुष्ठानेन,-इति मु ।
For Private And Personal Use Only