SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४६० www. kobatirth.org पराशर माधवः । अत्र प्राजापत्यव्रतलचणमाह हारीतः, - Acharya Shri Kailassagarsuri Gyanmandir [१२ प० । " त्र्यहं सायं त्र्यहं प्रातस्त्यहमद्यादयाचितम् । परं त्र्यहं वायुभच एष कृच्छ्रः प्रजापतिः” इति ॥ मनुरपि - For Private And Personal Use Only " त्र्यहं प्रातः त्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परन्तु नाश्नीयात् प्राजापत्यं चरन् द्विजः " -इति । श्रस्येवाधिकारिभेदेन प्रयोगान्तरमाह वसिष्ठः,— “अहः प्रातरहन्रक्रमहरेकमयाचितम् । अहः पराकं तत्रैकमेवं चतुरहौ परौ ॥ अनुग्रहार्थं विप्राणां मनुर्धर्मभृतां वरः । बालवृद्धातुराणाञ्च शिशुलच्छ्रमुवाच ह” – इति ॥ एतदुभयमपि प्राजापत्यकृच्छ्रं दर्शयति । याज्ञवल्क्यः,“एकभक्तेन नक्क्रेन तथैवायाचितेन च । उपवासेन चैकेन पादकृच्छ्रः प्रकीर्त्तितः ॥ यथाकथञ्चित् त्रिगुणः प्राजापत्योऽयमुच्यते " - इति । एकभक्तेन दिवैव सद्भोजनेन । नकेन राचौ महद्भोजनेन । श्रयाचितेन, न विद्यते याचितं यस्मिन् भोजने, तदयाचितम् । तेन । अत्र कालविशेषाप्रतीतेर्दिवा रात्रौ वा महद्भोजनेन । उपवासेन चैकेन एकस्मिन् दिनेऽनशनेन च पादकृच्छ्रो भवति । श्रयमेव पादकृच्छ्रः स्वस्थानविवृद्ध्या वा दण्डकलितवदावृत्त्या वा यथा कथञ्चित् त्रिगुणः त्रिरभ्यस्तः प्राजापत्य इत्युच्यते इत्यर्थः । एकभकादिषु ग्राससङ्ख्या श्रापस्तम्बेन दर्शिता,
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy