________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
॥
प्रायश्चित्तकाण्डम् ।
gya
उपपातकजातानामनादिष्टमा चैव हि"-इति ॥ मनुरपि,
“एनसां स्थूलसूक्षाणां चिकीर्षवपनोदनम् ।
अवेत्यूचं जपेदब्दं यत्किञ्चेदमितीति च"-इति । अत्र सदभ्यामादिभेदेन व्यवस्था द्रष्टया ।
इति रहस्यप्रायश्चितम् ।
अथ व्रतलक्षणानि। सर्वव्रतसाधारणानि याज्ञवल्क्याह,
“ब्रह्मचर्यं दया सान्निर्दानं सत्यमकल्कता । अहिंसाऽस्तेयमाधुर्य दमश्चेति यमाः स्मृताः ।। स्नानमौनोपवासेज्या स्वाध्यायोपस्थ निग्रहः ।
नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादिता"-दति ॥ अत्र ब्रह्मचर्य सन्द्रियनिग्रहः । उपस्थनिग्रहो लिङ्गनिरोधः । तयोर्गावलौबर्द्धन्यायेनापुनरुक्रिः । अकल्कत्वमकुटिलत्वम् । मनुरपि,
"अहिंसां सत्यमक्रोधमार्जवं च समाचरेत् । चिरति चिनिशावाञ्च मवासा जलमाविशेत् ॥ स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हिचित् । स्थानामनाभ्यां विहरेदक्रोधोऽधः शयोत वा ॥ ब्रह्मचारी बतौ च स्याद् गुरुदेवद्विजार्चकः । माविवौं च जपेनित्यं पविचाणि च शक्तितः ॥ सर्वेष्वव प्रतेष्वेवं प्रायश्चित्तार्थमादृताः" इति ।
For Private And Personal Use Only