SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः। [१२ १०॥ शङ्खलिखितावपि । “ब्रह्महा त्रिरात्रोपषितोऽन्तर्जलेऽघमर्षणं विरावर्त्तयेत्” इति। एतच्च कामकारविषयम् । अकामकार विषये यमः। “एवं ब्रह्महत्यासुरापानसुपर्णम्तेयगुरुतल्पेषु प्राणायामः श्रान्तोऽघमर्षणं जपेत्”–दति । बौधायनः । “ग्रामात् प्राचौमुदीचौं वा दिशामुपनिष्कम्य स्नातः शुचिरुदकान्ते स्थण्डिलमुपलिप्य मकृत् क्लिन्नवासाः सकृत् पूतेन पाणिनाऽऽदित्याभिमुखोऽघमर्षणस्वाध्यायमधीयोत प्रातः शतं मध्याहे शतं मायाले शतं परिमितं चोदितेषु नक्षत्रेषु प्रसूतियावकमनीयात् । ज्ञानकतेभ्य उपपातकेभ्यश्च सप्तरात्रात् प्रमुच्यते। द्वादशरात्रान्महापातकेभ्यः । एवं ब्रह्महत्यां सुवर्णस्तेयं सुरापानञ्च वर्जयित्वैकविंशतिरात्रेण तान्यभितरति”-दूति । मनुरपि, "अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः' इति । बहद्दिष्णुरपि । “ब्रह्महत्यां कृत्वा प्राचौमुदीचौं वा दिशमुपनिष्कम्य प्रभूतेनेन्धनेनाग्निं प्रज्वाल्याघमवर्णनाष्टसहसमाज्याहुतीजुहुयात् तदेतस्मात् पूतो भवतति”-इति । एतानि कामाकामकारादिभेदेन * व्यवस्थापनौयानि। सुरापाने यम आह । “सुरापः कण्ठमात्रमुदकमवतीर्य सुतसोमात् प्रसूतिमादायोङ्कारेणाभिमन्त्र्य पिवेत् । ततोऽमु निमनोमानस्तोकौयं जपेत्” इति । याज्ञवल्क्यः, “त्रिरात्रोपषितोडत्वा कुमाण्डौभिघृतं शुचिः" इति । * कामाकामकारभेदेन-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy