________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५
पराशरमाधवः।
[१२ म
यदुपस्थकृतं पापं पद्भ्यां वा यल्टतं भवेत् ॥ बाहुभ्यां मनसा वाचा श्रोत्रत्वज्राणचक्षुषा” इति । मनुः,
"महापातकिनश्चैव शेषायाकार्यकारिणः । तपसेव सुतप्तेन मुच्यन्ते किल्विषान्ततः॥ यत्किञ्चिदेनः कुर्वन्ति मनोवाकर्मभिजेनाः । तत् सर्व निर्गु दन्याश तपसैव तपोधनाः" इति । पैठौनमिः,
“सर्वपापप्रसक्तोऽपि ध्यायन् निमिषमच्युतम् ।
पुनस्तपस्वी भवति पतिपावनपावनः" इति ॥ कूर्मपुराणे,
"जपस्तपस्तीर्थसेवा देवब्राह्मणपूजनम् । ग्रहणदिषु कालेषु महापातकशोधनम् ॥ पुण्यक्षेत्राभिगमनं सर्वपापप्रणाशनम् । देवताऽभ्यर्चनं नृणामशेषाघविनाशनम् ॥ अमावास्यां तिथिं प्राप्य यः समाराधयेद्भवम् । ब्राह्मणाम् भोजयित्वा तु सर्वपापैः प्रमुच्यते ॥ कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् । सम्पूज्य ब्राहाणमुखे सर्वपापैः प्रमुच्यते ॥ त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् । दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः । एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ॥
For Private And Personal Use Only