________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५० ]
प्रायश्चित्तकाण्डम् ।
8५३
"पावमानौस्तथा कौत्सं पौरुषं सूक्तमेवच । जवा पापैः प्रमुच्येत सपुत्रं मधुच्छन्दसम् ॥ मण्डलबाह्मणं रुद्रं शुक्रियो मोक्षकम्तथा । वामदेव्यं वृहत्साम जप्वा पापैः प्रमुच्यते ॥ यज्ञायजीयमादित्यं ज्येष्ठमाम च राजनम् । पारुच्छेपञ्च सामानि जया मुच्येत किल्विषात् ॥ पाथर्वशिरसं चैव पुरुषसूक्तं तथैवच । नौलरुद्रं तथैवेन्द्र जवा पापैः प्रमुच्यते ॥ पाथर्वणाश्च ये केचित् मन्त्राः कामविवर्जिताः । ते सर्व पापहन्तारो याज्ञल्क्यवचो यथा ॥ संहोमे मन्युरित्येतदनुवाकं जपेद्दिजः । जवा पापैः प्रमुच्येत बौधायनवचो यथा ॥ ऋग्वेदमन्यसेद्यस्तु यजुःशाखामथापिवा । मामानि सरहस्यानि अथर्वाङ्गिरसस्तथा ॥ ब्राह्मणानि च कल्पांश्च षड़ङ्गानि तथैवच । श्राख्यानानि तथाऽन्यानि जप्वा पापैः प्रमुच्यते ॥ इतिहासपुराणानि देवतास्तवनानि च ।
जवा पापैः प्रमुच्येत धर्मस्थानैस्तथा परैः” इति ॥ बौधायनः,
“विधिना शास्त्रदृष्टेन प्राणायामान् षडाचरेत् ।
* समाचरेत्, इति शा० स० ।
For Private And Personal Use Only