________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५.
पराधारमाधवः ।
[१२
।
अभिशस्तप्रायश्चित्तमाह याज्ञवल्काः,
"अभिशस्तो मृषा कृच्छ्र चरेदाग्नेयमेव वा। निवपेत्तु पुरोडाशं वायव्यं चरमेव वा”-इति । यत्त बभिष्ठवचनम्। “एलेनैवाभिशास्तो व्याख्यातः" इति । तत्तदैवाकृतप्रायश्चित्तस्य द्रष्टव्यम् । यत्तु पैठौनसिनोक्रम् । “अन्तेनाभिशस्तः कृच्छं चरन्मामं पातकेषु महापातकेषु दिमामम्” इति। तदपि वसिष्ठेन ममानविषयम् ।
तदेवं विष्णनाऽनुकान्तानामतिपातकादीनां प्रकीर्णकान्तानां दाविधानां पायानां सामान्यतो विशेषतश्च प्रायश्चित्तानि प्रतिपादितानि।
अथ रहस्यप्रायश्चित्तान्यभिधीयन्ते ।
यत्पापं कर्तव्यतिरिकेनान्येन केनचिदपि न ज्ञातं, तद्रहस्थम् । तम्य प्रायश्चित्तमपि रहस्येव कर्त्तव्यम् । तथाच हारीतः । “अथ आह्मणम्य श्रुतधर्मशास्त्रम्य रहस्यमनुक्रमिय्यामः । रहस्यकृते रहस्यमेव कर्त्तव्यं, प्रकाशकृते प्रकाशमेव कर्त्तव्यम्”-दति। रहस्यत्वादेव नाम्ति परिषदनुमत्य पेक्षा। तदाहतुईहस्पतियाज्ञवल्क्यौ,
"विख्यातदोषः कुर्योत पर्षदाऽनुमतं प्रतम् ।
अनभिख्यातदोषस्तु रहस्यवतमाचरेत्”-इति ॥ न च विना परिषदं व्रतज्ञानाभाव इति शनीयम्। शास्त्रजस्य तद्विजानसम्भवात् । दूतरेणापि बुद्धिमता विद्गोठ्यां केनचि--
For Private And Personal Use Only