________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ अ० ।
। प्रायश्चित्तकाण्डम् ।
888
यतिचान्द्रायणं चौ| ततश्चान्द्रायणं चरेत्" इति। क्षत्रियाद्युपसंग्रहणे हारीत आह । “क्षत्रियाभिवादने ऽहोरात्रमुपवामः स्यात् । वैश्यस्यापि। शूद्रस्याभिवादने त्रिरात्रमुपवासः । तथा, शय्याऽऽरुढ़पादुकोपानदारोपितपादोच्छिटान्धकारस्यश्राद्धकृनपदेवतापूजाऽभिरताभिवादने त्रिरात्रमुपवास: स्यात् । अन्यत्र निमन्त्रितेनान्यत्रभोजनेऽपि त्रिरात्रमुपवास:"-इति । मिथ्याऽभिशंमने प्रायश्चित्तमाह याज्ञवल्क्यः,
"महापापोपपापाभ्यां योऽभिशंसेन्मुषा नरम् ।
अमक्षोमासमासौत स जापी नियतेन्द्रियः" इति । जपश्च शुद्धवतीनां! कार्य्यः । तथाच वसिष्ठः । “ब्राह्मणमनतेनाभिशस्य पतनीयेनोपपतनौयेन वा मासमभक्षः शुद्धवतीरावर्त्तयेत् । अश्वमेधावभृथं वा गच्छेत्” इति। हारौतोऽपि,
“अन्ताभिशंसनाक्रोशे गुरूणां पैशुन्ये च ।
एकविंशतिरात्रन्तु पिवेद्रामों मुबईलाम्" इति । शङ्खलिखितौ । “नास्तिकत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नोमिथ्याऽभिशंसन इत्येते पञ्चसंवत्सरान् ब्राह्मणग्टहे भैक्षं चरेयः । संवत्सरं धौतं भैतमश्नौयुः । षण्मासान् गा अनुगच्छंयुः" इति । एतेषां वचनानां यथायोगं व्यवस्था द्रष्टव्या ।
* तीर्वा,-इति मु० । + भोजनेऽहोरात्रमुपवासः,-इति मु० । | शुद्धमतिना.-इति मु । { शुद्धमतिमावर्तयेत्, इति मु..
For Private And Personal Use Only