________________
Shri Mahavir Jain Aradhana Kendra
४३८
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
पराकत्रय संयुक्तमवकीर्णिव्रतं चरेत् " - इति । यतेः पुनर्गार्हस्थ्यखीकारे सम्बर्त्त श्राह - "संन्यस्य दुर्मतिः कश्चित् प्रत्यापत्तिं व्रजेद्यदि ।
म कुर्य्यात् कृच्छ्रमश्रान्तः षण्मासान् प्रत्यहं प्रतम् " - इति ।
वृद्धपराशरोऽपि -
"
[१२ ५० ।
"यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः । अनाशकनिवृत्तश्च गार्हस्थ्यं च चिकीर्षति ॥
चरेत् षाएमामिकं कृच्छ्रं नियतात्मा समाहितः । चरेत् त्रीणि च कृच्छ्राणि चौणि चान्द्रायणानि च । जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिमाप्नुयात् ” - इति ।
तत्र ब्राह्मणस्य षाएमासिककृच्छ्रः चत्रियस्य चान्द्रायणत्रयं, वैश्यस्य कृच्छ्रत्रयमिति व्यवस्था । श्रत्र षाएमासिकादिव्रतत्रयं ब्राह्मणस्यैव सक्तभ्यासाद्यपेचया व्यवस्थापनीयमित्यन्ये । व्रतान्तरलो पेऽप्यवकौर्णिव्रतमतिदिशति मनुः, -
" कृत्वा भैचरणमसमिध्य च पावकम् ।
श्रनातुरः सप्तरात्रमवकौर्णिव्रतं चरेत् ” - इति ।
For Private And Personal Use Only
यत्तु याज्ञवल्क्य वाह, -
“भैचाग्निकार्ये त्यक्वा तु सप्तराचमनातुरः । कामावकीर्ण इत्याभ्यां जुहुयादाऽतिदयम् । उपस्थानं ततः कुर्य्यात् सम्रासिंचत्वनेन तु” – इति । होममन्त्रौ तु, कामाकीर्णोऽस्त्रयवकीर्णोऽस्मि कामकामाय स्वाहा, कामाभिद्रुग्धोऽस्त्यभिद्रुग्धोऽस्मि कामकामाय स्वाहेति । एतच्च