________________
Shri Mahavir Jain Aradhana Kendra
०
www. kobatirth.org
]
प्रायवित्तकाण्डम् |
गुरुश्ऽश्रूषादिकार्य्यन्ययतया करणे द्रष्टव्यम् ।
सुतादिविक्रये उपपातकसाधारणोकं प्रायश्चित्तं योव्यम् । यत्तु शङ्खनोक्रम् । “देवग्टहप्रतिश्रयोद्यानारामसभाप्रपातटाकपुष्यसेतुसुतविक्रयं कृत्वा तप्तकृच्छ्रं चरेत्” - इति । यच्च वृद्धपराशरेणोक्रम्“विक्रीय कन्यकां गाञ्च कृच्छ्रं सान्तपनं चरेत्” - इति । तदापद्यकामतो द्रष्टव्यम् । यत्तु चतुर्विंशतिमतेऽभिहितम्, - "नारीणां विक्रयं कृत्वा चरेचान्द्रायण्प्रतम् । द्विगुणं पुरुषस्यैव व्रतमाहुर्मनीषिणः” – इति । तत्तत्रैव कामतो द्रष्टव्यम् । यत्तु पैठीनसिराह । " श्रारामतटाकोदपानपुष्करिणौसुकृतसुतविक्रये त्रिषवणस्त्राय्यधः प्रायौ ब्रह्मचारी चतुर्थकालाहारः संवत्सरेण पूतो भवति” – इति । तदभ्यासविषयम् ।
कन्यादूषणे उपपातकसाधारणप्रायश्चित्तं विज्ञेयम् । यत्तु शङ्ख आह । “कन्यादूषौ सोमविक्रयौ च कृच्छ्राब्दं चरेयाताम् ” - इति । यच्च चारीतः । “कन्यादूषौ सोमविक्रयी वृषलीपतिः कौमारदारत्यागौ सुरामद्यपः शूद्रवाजको गुरोः प्रतिहन्ता नास्तिकोनास्तिकवृत्तिः कृतघ्नः कूटव्यवहारौ ब्रह्मन्नः मित्रघ्नोमिथ्याऽभिशंसो पतितसंव्यवहारो मित्रभ्रुक् भरणागतघातौ प्रतिरूपकटत्तिरित्येते पञ्चतपोभूजल - नाद्यनुतिष्ठेयुः, ग्रौअवर्षाहेमन्तेषु, मासं गोमूत्र यावकमनीयुः” - इति । तत् प्रातिलोम्येन कन्यादूषणे द्रष्टव्यम् ।
द्यूतादिव्यमनेय्वप्युपपातकसाधारणोकं प्रायवित्तं योव्यम् । यत्तु बौधायनः संवत्सरजतमाह । “ श्रथाश्शुचिकराणि द्यूतमभिचारोऽनाहिताग्नेरुञ्छवृत्तिः समावृत्तस्य भेचचर्य्या श्रानाशं च गुरुकुले वास
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
०३८