________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२८
पराशरमाधवः ।
[१२
.।
चान्द्रायणं चरेन्माम वौरहत्यासमं हि तत् ॥ अग्निहोत्र्यपविध्यानौन्मामादूर्धन्तु कामतः ।
कृच्छं चान्द्रायणञ्चैव कुर्यादेवाविचारयन्” इति ॥ हारोतः । “संवत्मरोत्सनाग्निहोत्री चान्द्रायणं कृत्वा पुनरादध्यात् । द्विवर्षात्मन्ने सान्तपनं चान्द्रायणञ्च कुर्य्यात् । त्रिवर्षात्मने संवत्मरकृच्छ्रमभ्यस्य पुनरादध्यात्” इति । शङ्खोऽपि । “अग्न्युत्मादी संवत्सरं प्राजापत्यं चरेत् गाश्च दद्यात्" इति । भरद्वाजः । “दादशाहातिक्रमे यहमुपवास: । मासातिकमे दादशाहमुपवासः । संवत्सरातिक्रमे मासोपवासः पयोभक्षणं च”-इति । एतत्सर्वमालस्याग्नित्यागविषयतया* यथायोगमूहनीयम् । यत्तु भरदाजग्टह्येऽभिहितम् । "प्राणायामशतमादशरात्रं कुर्यात् । उपवासमाविंशतिरात्रं कुर्यात् । श्रतऊर्द्धमाषष्टिरावं तिस्रोरात्रीः उपवसेत्। श्रत अर्द्धमासंवत्मरात् प्राजापत्यं व्रतं चरेत् । अत हुई कालबहुत्वे दोषबहुत्वम्” इति । तत्प्रमादाद नित्यागविषयम्। नास्तिक्यात् त्यागे तु व्याघ्र पाह,
“योऽग्निं त्यजति नास्तिक्यात् प्राजापत्यं चरेविजः ।
अन्यत्र पुनराधानं दानमेव तथैवच” इति ॥ प्राजापत्यस्योपलक्षणत्वात् त्यागकालस्य गौरवलाघवानुसारेण व्रतान्तरान्यूहणीयानि । ब्रतानन्तरकर्त्तव्यमाह जादूकर्यः,
"अतीतकालं जुहुयादग्नौ विप्रोयवानयम् । नष्टेऽनौ विधिवद्दयात् कृत्वाऽऽधानं पुनर्दिजः" इति ।
• बालस्यादित्यागविषयतया,-इति मु० । । कृत्वाधाय पुनर्दिजे,-इति भु.।
For Private And Personal Use Only