________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२४
पराशरमाधवः ।
[१२ अ०।
असमर्थस्य गुरोर्द्रव्यलाभाद्युपरोधकारणं निर्बन्धं कतोति चेत्, सोऽयमलोकनिर्बन्धोब्रह्महत्याममत्वेन मनुनोक्रः। यत्र वाक्पारुण्यादिमात्रेण गुरोरप्रियमुपजायते, सोऽयमलोकनिर्बन्ध उपपातकम्। वेदनिन्दा त्रिविधा; बुद्धार्हतादिशास्त्राण्यभ्यस्य वेदानामप्रामाण्यप्रतिपादने निर्बन्धएका निन्दा। सेयं याज्ञवल्क्येन ब्रह्महत्यासमेषपवर्णिता। सत्यामपि वेदप्रमाण्यबुद्धौ जल्पवितण्डादिहेतुशास्त्रव्यमनितया श्रुतिस्मृत्युकस्यानुष्ठानस्यावज्ञा द्वितीया निन्दा । एतदेवाभिप्रेत्य मनुराह,
“योऽवमन्येत ते उभे हेतुशास्त्राश्रयाद् द्विजः ।
स माधुभिर्वहिस्कार्यो नास्तिको वेद निन्दकः” इति । मेयं निन्दा सुरापानसमेषु मनुनोदाहता ।
यस्तु वैदिकर्मानुतिष्ठन्नपि नात्यन्तं तत्त्वतः अद्धत्ते, किमनेन भविष्यति जनापवादभयादेव केवलमनुतिष्ठामौत्येवं निन्दति, सेयं निन्दोपपातकेषु पद्यते।
एवमध्ययनत्यागादेरेकैकस्य बहुविधस्यानुकान्तस्य गौरवलाघवे पालोयावान्तरभेदः कल्पनीयः। अग्निमात्सुतदाराणमित्यत्रापि त्याग इति पदमन्वेति। अनुक्रान्तानामुपपातकानां प्रोकेभ्योऽतिपातकमहापातकानुपातकेभ्योऽल्पत्वादुपपातकत्वम् । तदुक्तं स्मृत्यन्तरे,
"महापातकतुल्यानि पापान्युतानि यानि तु ।
तानि पातकसंज्ञानि तन्न्यनमुपपातकम्” इति ॥ तस्य चोपपातकजातस्य साधारणं प्रायश्चित्तं विष्णराह,* मूल, ~इति मु० ।
For Private And Personal Use Only