SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अ.] प्रायश्चित्तकाण्डम् । ४२३ तथैवान्याश्रमे वासः परानपरिपुष्टता ॥ अमच्छ्रास्त्राधिगमनमाकरेवधिकारिता । भा-या विक्रयश्चैषामेकैकमुपपातकम्” इति ॥ यद्यप्यनृतवचनमुत्कर्ष इत्येतन्मनुना ब्रह्महत्यासमेषु पठितं, याज्ञवल्क्येन सुरापानसमेषु, विष्णुना उपपातकेषु ; तथापि विषयभेदेन वैविध्यं वक्तुं शक्यत्वात् न किञ्चिदमार्यम् । विषयभेदस्तुच्यते। देण्यं पुरुषं राजमृत्यादिभिर्मारयितुं तस्मिन्न विद्यमानमपि महान्तमपराधमारोप्यानृतं चेद् ब्रूयात्, तद्ब्रह्म हत्यासमम्। बधपर्य्यवसायित्वात् । यस्तु लाभपूजाख्यातिकामो राजसभादौ स्वस्मिन् अविद्यमानमपि चतुर्वेदाभिज्ञत्वं प्रकटयितुमनृतं ब्रूते, तत्सुरापानसमम् । अतिगर्हितत्वात्। यस्तु मुख्यगोष्ठ्यादौ परोपकारमन्तरेण वृथाऽनृतं ब्रूते, तस्यैतदुपपातकम् । तत्राद्ययोः प्रायश्चित्तं पूर्वमेवोक्तम्। हतीये तु कामकृते याज्ञवल्क्य आह, "अपि तेज इति छायां खां दृष्ट्वाऽम्बुगतां जपेत् । सावित्रीमाचौ दृष्टे चापल्ये चानृतेऽपिच"-दूति ॥ अकामकते तु मनुनोतं द्रष्टव्यम्, "सुधा चुत्वा च भुक्ता च निष्ठौव्योक्त्वाऽनृतानि च । पौत्वाऽपोऽध्येष्यमाणश्च श्राचामेत्प्रयतोऽपि सन्” इति । राजाग्रे साक्षात्परम्परया वा परदोषकथनं राजगामि पेशन्यम् । गुरोवलोकनिर्बन्धी विविधः । तत्र राजग्टहादौ स्वयं समर्थः सन् * तथैवानाश्रमे,-इति मु०। + यि,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy