________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
परापारमाधवः।
[१२ ख.।
जीवनं अभिचारमूलकर्मसु च प्रवृत्तिः श्रात्मार्थं च क्रियारम्भोऽनाहिताग्निता स्तेयो देवर्षिपितॄणामृणस्यानपाक्रिया प्रमच्छास्त्राधिगमनं नास्तिकता कुशौलता मद्यपस्त्रौनिषेवणमुपपातकानि”-इति । याज्ञवल्क्यस्तु विष्णुनाऽनुक्तान्यपि कानिचिदुपपातकानि ऋणानपक्रियादौन्युदाजहार,
"गोबधोव्रात्यता स्तैन्यमृणानां चानपक्रिया। अनाहिताग्निताऽपण्यविक्रयः परिवेदनम् ॥ भृतादध्ययनादानं मृतकाध्यापनं तथा । पारदायं पारिवित्त्यं वार्द्ध व्यं लवण क्रिया ॥ स्त्रौशट्रविट्क्षत्रबधो निन्दितार्थोपजीवनम् । नास्तिक्यं व्रतलोपश्च सुतानाञ्चैव विक्रयः ॥ धान्यकुप्यपस्तेयमयाज्यानां च याजनम् । पिटमासुतत्यागस्तटाकारामविक्रयः ॥ कन्यास दूषणञ्चैव परिवेदकयाजनम् । कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ।। श्रात्मनोऽर्य क्रियारम्भीमद्यपस्त्री निषेवणम् । स्वाध्यायाग्निसुतत्यागो बान्धवत्यागएवच ॥ इन्धनार्थं ट्रमच्छेदः स्त्रौ हिंसौषधजीवनम् । हिंस्रयंत्रविधानञ्च व्यसनान्यात्मविक्रयः ।। शूद्राप्रेष्यं होनसख्यं होनयो निनिषेवणम् ।
* मतकाध्ययनं चैव,-इति शा० सो० । + नात्ययं श्लोकः शा. पुस्तके ।
For Private And Personal Use Only