________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ १०
प्रायश्चित्तकाण्डम् ।
४२१
४२१
याज्ञवल्क्योऽपि सुरापानसमान्युदाजहार,
"निषिद्धभक्षणं जैह्यमुत्कर्ष च वचोऽनृतम् । रजखलामुखाखादः सुरापानममानि तु”-इति ॥ एवमादिषु सर्वत्र येन साम्यं उच्यते, तदीयं प्रायश्चित्तं किञ्चिन्यूनमनुष्ठेयम्। मा च न्यूनता निमित्तगौरवानुसारिणी कल्पनौया। सुवर्णस्तेयसमे तु ब्राह्मणभूम्यहरणे मरणान्तिकप्रायश्चित्तेषु न्यूनत्वकल्पनाऽसम्भवाद्वादशवार्षिकादिव्रतानि यथायोगं कल्पनीयानि । याज्ञवल्क्योऽन्यानि सुवर्णस्तेयसमान्याह,
"अश्वरत्नमनुष्यस्लोभूधेनुहरणं तथा। निक्षेपस्य च सवं हि सुवर्णस्तेयमम्मितम्”-इति ॥ मनुरपि,
"निक्षेपस्यापहरणं नराश्वरजतस्य च।
भूमिवज्रमणौनाञ्च रुकास्तेयसमं स्मतम्" इति ॥ पिढव्यपत्न्यादिगमनानां गुरुतल्यसमानानां दशमाध्याये मानस्वसृगमे चैवमित्यस्मिन् प्रकरणे प्रपञ्चितम् ।
अनुपातकानन्तरं विष्णुरुपपातकं अनुक्रम्य तत्स्वरूपमेवं निर्दिदेश। "अनतवचनमुत्कर्ष राजगामि पैशान्यं गुरोचालोकनिर्बन्धो वेदनिन्दाऽधीतस्य च त्यागोऽग्निमापिटसुतदाराणाञ्चाभोज्यानभक्षणं परस्खहरणं गुरुदाराभिगमनं याज्ययाजनं विकर्मणा जौवनमसप्रतिग्रहः क्षत्रियविटशूद्रगोबधोऽविक्रेयविक्रयः परिवित्तिताऽनुजेन ज्येष्ठस्य परिवेदनञ्च ब्रात्यता भूतकाध्यापनं मतादध्ययनादानं साकरेवधिकारो महायन्त्रप्रवर्त्तनं द्रुमगुल्मलतौषधीनां हिंसा स्त्रिया
For Private And Personal Use Only