________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8२०
पराशरमाधवः।
[१२ ध।
"ब्रह्मोज्नं वेदनिन्दा च कूटसाक्ष्यं सुहद्दधः ।
गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट्”-इति ॥ तत्र ब्रह्मोज्यस्य प्रायश्चित्तं वसिष्ठ आह । “ब्रह्मोज्नः कृच्छं द्वादशरात्रं चरित्वा पुनरुपयुञ्जीत वेदमाचार्य्यात्" इति। इदश्च प्रायश्चित्तं प्रमादव्याध्यादिविषयम् । नास्तिकतया तत्त्यागे पादन्यूनसरापानव्रतमिति मनोर्मतम् । यदपि वसिष्ठेनोकम् । “गुरोरलोकनिर्बन्धे कृच्छ्र द्वादशरात्रं चरित्वा सचेलं स्नात्वा गुरुप्रसादात् पूतो भवति"-इति । तदेतदमतिपूर्ख सकृदनुष्ठाने वेदितव्यम् । विष्णुनाऽनुक्रान्तस्य कौटमाक्ष्यस्य द्वादशवार्षिकं प्रायश्चित्तम् । तथाच तद्रतानुवृत्तौ शङ्खाह,
“कौटमाक्ष्यं तथा कृत्वा निक्षेपमपहत्य च ।
एतदेव व्रतं कुर्यात् तथाच शरणागतम्" इति ॥ यत्र माझ्यना वदनेनों वर्णिनो बधप्राप्तिः, तद्विषयमिदम् । अपरमपि ब्रह्महत्यासमं विष्णुर्दर्शयति,
"आक्रुष्टस्ताडितो वाऽपि धनैर्वा विप्रयोजितः ।
यमुद्दिश्य त्यजेत् प्राणांस्तमाहुब्रह्माघातकम्”-दति ॥ प्राक्रोशनादिनिमित्ताभावे मृतस्यैव इत्यादोषः, न वद्येश्यस्य । तथाच स्मृत्यन्तरम्,
"कारणन्तु यः कश्चित् दिजः प्राणन् परित्यजेत् । तस्यैव तत्र दोषः स्थान तु यं परिकोर्तयेत्” इति ॥ * सचेलखानतः, इति मु। + कौटसाक्ष्यकृतवचनेन,-इति मु ।
For Private And Personal Use Only