SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ १० प्रायश्चित्तकाण्डम् । 8१६ बिगुपाध्यायमित्रपन्यभिगमनञ्च । खसुः सख्याः सगोत्राया उत्तमवर्णयाः कुमार्या रजस्खलायाः शरणागतायाः प्रबजिताया निक्षितायाश्च”-इति । तत्र प्रायश्चित्तं विष्णुरेवाह, "अनुपातकिनस्त्वे ते महापातकिनो यथा । अश्वमेधेन शुद्ध्यन्ति तीर्थानुसरणेन वा” इति ॥ तत्राश्वमेधः सार्वभौमराजविषयः । “राजा सार्वभौमोऽश्वमेधेन यजेत"-इति श्रुतेः। तीर्थस्नानमितरविषयम्। तच्च साधारणं प्रायश्चित्तम् । यत्र प्रतिपदोकं प्रायश्चित्तं नास्ति नोपलक्ष्यते वा, नवेदं साधारणं द्रष्टव्यम्। यागस्थक्षत्रबधस्य तादृशवैश्यवधस्य च षष्ठाध्याये वैश्यं वा क्षत्रियं वाऽपौत्येतस्य व्याख्यानप्रसङ्गे प्रायश्चित्तं दर्भितम् । तथा चान्तर्वन्या अत्रिगोत्रायाश्च बधे तत्रैव प्रायश्चित्तमभिहितम् । अविज्ञातगर्भबधे प्रायश्चित्तं चतुर्थाध्याये गर्भपातञ्च या कुर्यादित्यस्मिन् प्रसङ्गे वर्णितम् । शरणागतबधः परिशिष्यते । मनुस्खन्यान्यपि ब्रह्महत्यासमान्याह, "अनतञ्च समुत्कर्ष राजगामि च पैशनम् । गुरोश्वालोकनिर्बन्धः समानि ब्रह्महत्यया"-दति ॥ याज्ञवल्क्यश्चापराण्यप्याह, “गुरूणामध्यधिक्षेपो वेदनिन्दा सुहृद्दधः । ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम्" इति ॥ अत्र शरणागतबधादिषु पादन्युनं ब्रह्महत्याव्रतमवगन्तव्यम् । समशब्दस्य राजममो मन्त्रौत्यादावौषन्न्यने प्रयोगदर्शनात्। मनुस्खधौतत्यागादीनां सुरापानसमत्वमाह, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy