SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १८ [१२ अ० । इत्थं प्रायश्चित्तकाण्डे नवभिरध्यायैः प्रकीर्णकादीनां महापातकान्तानां पापानां यानि प्रायश्चित्तान्याचार्येणाभिहितानि, तानि व्याचक्षाणैरस्माभिस्तत्प्रसङ्गात् पठितानि स्मृत्यन्तराष्यप्युदाहृत्य व्यवस्थापितानि । अथ यानि पूर्व्वमनुदाहृतानि तान्युदा हृत्य व्यवस्थापयामः । तत्र विष्णुप्रोक्तां पापानुक्रमणिकामाश्रित्य तदानुपूर्व्यात्प्रायश्चित्तवचनान्युदाद्दियन्ते । तत्र विष्णुरादावतिपातकमनुक्रम्य तत्खरूपमेवं विनिर्दिदेश । “मातृगमनं दुहितृगमनं खुषागमनमित्यतिपातकानि - इति । तेषां त्रयाणां दशमाध्याये, मातरं यदि गच्छेदित्यस्मिन् प्रकरणे प्रायश्चित्तानि निर्णीतानि । 1 अतिपातकानन्तरं महापातकमनुक्रम्य तत्स्वरूप निर्देशः एवङ्कृतः "ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनमिति महापातकानि तत्संयोगश्च " - इति । तत्र गुरुदारगमनव्यतिरिक्रानां चतुर्ण द्वादशाध्याये चतुर्विद्येत्यादिना सर्व्वपापप्रणाशनमित्यन्तेन ग्रन्थेन प्रायश्चित्तान्युकानि । गुरुदारगमनस्य तु दशमाध्याये पिनदारान् समारुह्येत्यत्र प्रायश्चित्तमभिहितम् । पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir महापातकानन्तरमनुपातकमनुक्रम्य तत्खरूपमेवं निर्दिष्टम् । “यागस्यस्य चत्रियस्य बधः वैश्यस्य रजस्वलायाश्चान्तर्व्वन्याश्वात्रेयगोत्रया श्रविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानौति। कूटमाक्ष्यं सुहृदध इत्येतौ सुरापानसमौ । ब्राह्मणभूम्यपहरणं सुवर्णस्तेयममम् । पिटव्यमातामहमातुलश्वशुरनृपपत्न्यभिगमनं गुरुदाराभिगमनसदृशम् । पित्तमात्स्वसृगमनं श्रोत्रिय - For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy