________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१४
परापारमाधवः।
[१२ अ।
प्रहारेण न मृतः, तदा राज्ञा मुक्तः शुद्धिं प्राप्नोत्येव । तथाच सम्बर्तः,
"ततो मुषलमादाय सकृद्धन्यात्तु तं स्वयम् ।
यदि जीवति स स्तेनस्ततः स्तेयादिमुच्यते” इति ॥ अथवा, मुक्तएवचेति पक्षान्तरमेवं व्याख्येयम्। यत्र स्तेनेन ये पोव्यास्तदीयपुत्रमित्रकलत्रादयो बहवः सन्ति, तत्र स्तेने मृते बहवोविनश्यन्तौति मत्वा कृपालुना राज्ञा धनदण्डादिपुरःसरं स्तेनोऽप्रहृतो मुच्येत, तदाऽपि विशझ्यत्येवेति। नन्वेवं सति, "अनन्नेनखौ राजा”-इति गौतमवचनात् राजा प्रत्यवायो स्यात्। न । तस्य पोथ्यवर्गादिकृपानिमित्तस्तेनव्यतिरिक्तविषयत्वेऽप्यपपत्तेः। ननु ब्रामणबधस्यानिगस्तित्वात् मुक्तएवेत्ययं पक्षस्तद्विषयत्वेन कुतो न व्याख्यायते। मनुवचनविरोधादिति बमः। तथाच मनुः,
"सुवर्णस्तेयकृतिनो राजानमभिगम्य तु। स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशाग्विति ॥ ग्टहीत्वा मुषलं राजा महत् कुर्य्यात् हतं स्वयम् ।
बधेन शुध्यति स्तेनो ब्राह्मणस्तपमैवच"-इति ।। अत्र बधपक्षोनामधारकमात्रविप्रविषयः। तपःपक्षम्तु सवनस्थत्वादिगुणोपेतब्राह्मणविषयः। न च तादृशस्य स्तेयमसम्भावितमिति शङ्कनौयम्। कदाचित् क्वचिञ्चित्तगततामसवृत्त्या लोभातिशयोदये मति तत्सम्भवात्। एवञ्च सति मुक्रएवेति पक्ष एतद्विषयत्वेनापि योजयितुं शक्यते। यच्चायं कामकृतं स्यात्, तत्रायमुक्कोबधो द्रष्टव्यः । अन्यथा प्रामादिकचौर्य बधं नार्हति। न च लोभैकमूलस्य चौर्यस्य
For Private And Personal Use Only