SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [१२ प.। समानानि विजानीयान्मद्यान्येकादशैव तु”–इति। एकादशानामन्यतमस्य मद्यस्य पाने महानदौतौरे चान्द्रायणच. रित्वा ब्राह्मणभोजनं कृत्वा दक्षिण दद्यात् । तदेतत्कामकारविषयम् । अकामकारे तु सहस्पतिराह, "पौत्वा प्रमादतो मद्यमतिकृच्छ्रच्चरेत् दिजः। कारयेत्तस्य संस्कारं प्रात्या विप्रांस्तु भोजयेत्”-इति ॥ तदेतन्मद्यपानप्रायश्चित्तं ब्राह्मणस्यैव, न क्षत्रियवैश्ययोः। मद्यपानस्य ब्राह्माणं प्रत्येव निषेधात् । "यक्षरक्ष:पिशाचावं मद्यमांससुराऽऽसवम् । नहाह्मणेन नात्तव्यं देवानामनता हविः” इति स्मरणात् ॥ सहद्दिष्णुरपि, "माधूकमैक्षवं मैरं तालखार्जूरपानमम् । धूस्वरश्चैव माध्वीकं मैरेयं नारिकेलजम् ।। अमेध्यानि दशैतानि निन्द्यानि ब्राह्मणस्थ तु" इति। राजन्यवैश्ययोस्तु मद्यपानमनुजानाति वृहद्याज्ञवल्क्यः, “कामादपि च राजन्यो वैश्या वाऽपि कथञ्चन। मद्यमेव सुरां पौत्वा न दोषं प्रतिपद्यते"-इति ॥ व्यामोऽपि, "उभौ मध्वासवं पौत्वा उभौ चन्दनचर्चितौ । एकपर्यशशयितौ दृष्टौ मे केशवार्जुनौ” इति ॥ उपनयनात् पूर्व मद्यपाने प्रायश्चित्तं पित्रादिभिः कर्त्तव्यम् । नदार आवकर्यः, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy