SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अ.] प्रायश्चित्तकागड़म् । "प्रायश्चित्ते व्यवमिते कर्ता यदि विपद्यते । प्रतस्तदहरेव स्यादिह लोकपरत्र च"-दति ॥ व्यामोऽपि, “धर्मार्थ यतमानस्तु तश्चेत् कोऽपि मानवः । प्राप्तो भवति तत्पुण्यमत्र मे नास्ति मंशयः” इति ॥ बधोद्यमेऽपि बधप्रायश्चित्तं कर्त्तव्यम् । तदाह याज्ञवल्क्यः, "चरेत् व्रतमहत्वाऽपि घातार्थ चेत् समागतः” इति। यथावर्णमित्यनुवर्त्तते । अतएव स्मृत्यन्तरम्, "अहत्वाऽपि यथावर्ण ब्रह्महत्याव्रतं चरेत्" इति । सवनस्थस्त्रीबधस्य महापातकत्वमभिप्रेत्य प्रायश्चित्तमाह,सवनस्थां स्त्रियं हवा ब्रह्महत्याव्रतं चरेत् ॥७३॥ इति॥ श्राहिताग्नेर्जाया पतिव्रता सवनस्दा । अतएवाङ्गिराः, "श्राहिताग्नेर्दिजातस्य हत्वा पत्नौमनिन्दिताम् । ब्रह्महत्याव्रतं कुर्य्यादात्रेयोनस्तथैवच” इति ॥ ब्रह्महत्यायाः प्रायश्चित्तमभिधाय मद्यपानस्य प्रायश्चित्तमाह,मद्यपश्च दिजः कुर्यानदौं गत्वा समुद्रगाम् । चान्द्रायणे ततश्चीणे कुर्यात् ब्राह्मणभोजनम ॥७॥ अनडुत्सहिताङ्गां च दद्यात् विप्रेषु दक्षिणाम्। इति । पनसादिजन्यं मदकारणं द्रवद्रव्यं मद्यम् । तदाह पुलस्त्यः, “पानसं द्राक्षमाधुकं खाजूरं तालमेक्षवम्। मधुत्थं मौरमाविष्टमैरेयं नारिकेलजम् ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy