________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ प.]
प्रायश्चित्तकाण्डम् ।
"प्राणान्तिकं च यत्प्रोक्र प्रायश्चित्तं मनीषिभिः । तत्कामकारविषयं विज्ञेयं नात्र संशयः ॥ यः कामतो महापापं नरः कुर्यात्* कथञ्चन ।
न तस्य द्धिनिर्दिष्टा भग्वग्निपतनादृते"-इति ॥ यत्तु सुमन्तुनोकम् । “ब्रह्महा संवत्सरं कृच्छ् चरेत्। अधःशायौ त्रिषवणस्नायी कर्मवेदकोभेक्षाहारो दोव्यनदीपुलिनमङ्गमाश्रमगोष्ठपर्वतप्रस्रवणतपोवनविहारौ स्थात् स्थानवौरासनी।संवत्सरे पूर्ण हिरएयमणिगोधान्यतिलभूमिसपौषि ब्राह्मणेभ्यो दद्यात्, पूतो भवति" -इति । तदपहन्तुर्मूर्खस्य धनवतोजातिमात्रव्यापादने द्रष्टव्यम् । यत्पुनर्वसिष्ठवचनम् । “दादशरात्रमभचो द्वादशरात्रमुपवसेत्”इति । तन्मनोऽवसितब्रह्महत्यस्य तदैवोपरतजिघांसस्य वेदितव्यम् । यत्पुनः षट्त्रिंशन्मतवचनम्,
"पण्डन्तु ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् ।
चान्द्रायणं प्रकुर्वीत पराकदयमेवच" इति । तदप्रत्यानेयपुंस्त्वस्य प्रत्ययबधे द्रष्टव्यम्। अप्रत्ययवधे तु वृहस्पतिराह,
"अरुणायाः सरस्वत्याः सङ्गमे लोकविश्रुते ।
शोत् त्रिषणस्नायौ त्रिरात्रोपोषितोदिजः” इति ॥ एतानि द्वादशवार्षिकादिधनदानपर्यन्तानि ब्राह्मणस्यैव। त्रियादेम्नु द्विगुणादिकम् । यदाहाङ्गिराः,
___ "पर्षद् या ब्राह्मणानान्तु मा राज्ञां द्विगुणा मता। * कुर्य्याविप्रः, इति मु ।
For Private And Personal Use Only