________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[१२.
जपन् वाऽन्यतमं वेदं योजनानां शतं ब्रजेत् । ब्रह्महत्याऽपनोदाय मितभुनियतेन्द्रियः । सर्वखं वा वेदविदे बाबणयोपपादयेत् ॥ धनं वा जौवनायालं ग्रहं वा मपरिच्छदम् । इविष्यभुम्वाऽनुचरेत् प्रतिश्रोतः मरखतीम् ।।
जपेदा नियताहारविर्वै वेदस्य मंहिताम्" इति । एते सर्वे पक्षाः कामकाराकामकारविद्वदविद्वदिषयत्वेन व्यवस्थाफ्नौयाः । कामचतात्यन्ताभ्यामे तु याज्ञवल्क्य आह,
"लोमभ्यः स्वाहेत्येवं हि लोमप्रति वै तनुम् ।
मचान्तं जुड़यादाऽपि मग्वेरेभिर्यथाक्रमम्" इति ॥ तत्राष्टा मन्त्रानाह वसिष्ठः । “लोमानि मृत्योर्जुहोमि लोमभिर्मत्युं नाशय इति प्रथमम् । त्वयं मृत्योर्जुहोमि त्वचा मृत्यं नाशय इति द्वितीयम् । लोहितं मृत्योर्जुहोमि लोहितेन मृत्यु नाशय इति स्तोयम् । मांस मृत्योर्जुहोमि मांसेन मृत्यु नाशय इति चतुर्थम् । मेदोम्मृत्योर्जुहोमि मेदमा मृत्यु नाशय इति पञ्चमम् । वायु स्मृत्योर्जुहोमि स्वाय्वा मृत्यु नाशय इति षष्ठम् । अस्यौनि मृत्योर्जुहोमि अस्थिभिर्मत्यु नाशय इति सप्तमम्। मन्ना मृत्योर्जुहोमि मब्बया मृत्यु नाशय इत्यष्टमम्” इति । मरणन्तिकस्य सर्वस्य व्रतस्य कामकारविषयत्वं मध्यमाङ्गिरा पाह,
* वाशय,-इति शा । एवं परत्र । + मरणान्तिकस्येदृशस्य, इति मु. ।
For Private And Personal Use Only