SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ प.] प्रायश्चित्तकाण्डम् । “केशश्मश्रुनखादीनां कृत्वा तु वपनं वने । ब्रह्मचर्य चरन् विप्रो वर्षेणैकेन शुद्ध्यति"-दुति तेनैवाभिधानात् । यथा हन्ता प्रायश्चित्तौ, यथा वा निमित्ती, तथैवानुमन्त्रादयोऽपि प्रायश्चित्तभाजः । तथाच पैठौनमिः, "हन्ता मन्तोपदेष्टा च तथा सम्प्रतिपादकः । प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः ॥ प्राश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् । उपेक्षकः शनिमांश्चेद् दोषवनाऽनुमोदकः ॥ अकार्यकारिणस्तेषां प्रायश्चित्तं प्रकल्पयेत् । यथाशक्त्यनुरूपञ्च दण्डन्तेषां प्रकल्पयेत्”-दूति ॥ एतेषां मध्ये यो यो बधस्य प्रत्यासनस्तस्य तस्याधिकं प्रायश्चित्तं, विप्रष्टस्य तदपेक्षया न्यूनं प्रायश्चित्तं कल्पनीयम्। साक्षाकर्तुरपि क्योविशेषे प्रायश्चित्तस्य हासो भवति । तदाह यमः*, "अभौतिर्यस्य वर्षाणि बालो वाऽप्युनषोडशः । प्रायश्चित्तार्द्धमर्हन्ति व्याधितश्च तथा स्त्रियः" इति ॥ कचित्कर्तुः प्रतिनिधिमाह सएव, "अपूर्णकादशाब्दस्य चतुर्वर्षाधिकस्य च । प्रायश्चित्तं चरेद् भ्राता पिताऽन्योवाऽथ बान्धवः”-दूति। यत्तु तेनैवोकम्, * मनुः, इति मु। + स्त्रियोरोगिणरवच,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy