________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः।
"दूयं विशुद्धिरुदिता प्रमाण्याकामतो विजम् ।
कामतो ब्राह्मणबधे निष्कृतिर्न विधीयते"-इति ॥ श्रावृत्तब्रह्मबधे चतुर्थात् प्रागवतमप्यावर्त्तनीयम्। तदाहतुर्मनुदेवलौ,
"विधेः प्राथमिकादस्माद्वितीये द्विगुणं चरेत् । हतीये चिगुणं चैव चतुर्थे नास्ति निष्कृतिः । यस्यादनभिसन्धाय पापं कर्म सकृत् शतम् ।
तस्येयं निष्कृतिर्दृष्टा धर्मविद्भिर्मनौषिभिः” इति । तदेतद् देवलेन सहदनुष्ठानस्य महत्टातपापविषयत्वाभिधानात्, प्रतिनिमित्तं नैमित्तिकमावर्त्तनीयमिति न्यायोचावृत्तौ बैगुणादिमिद्धिः । यस्तु न साक्षाद् ब्राह्मणं हन्ति ; किन्तु तिरस्कारादिद्वारा तबिमित्ततामापद्यते, तं प्रति सुमन्तुराह,
"तिरस्कृतो यदा विप्रो हत्वाऽऽत्मानं मृतो यदि । निर्गुणः महमा क्रोधाद् ग्राहक्षेत्रादिकारणात् ॥ वैवार्षिकं व्रतं कुर्यात् प्रतिलोमां सरस्वतीम् ।
गच्छेदाऽपि विशुद्ध्यर्थं तत्यापस्येति निश्चितम्" इति ॥ निर्निमित्तं भर्मने मएवाह,
"प्रत्यर्थं निर्गुणो विप्रो ह्यत्यर्थं निर्गुणोपरि । कोधारे म्रियते यस्त निर्निमित्तन्तु भर्मितः ।।
वत्मरत्रितयं कुर्याबरः कच्छं विशुद्धये"-इति। यदा पुनर्निमित्ती अत्यन्तगुणवानात्मघाती चात्यन्तनिर्गणः, तदेकवर्षमेव ब्रह्महत्यानतं कुर्यात् ।
For Private And Personal Use Only