________________
Shri Mahavir Jain Aradhana Kendra
१२ ० ।
www. kobatirth.org
प्रायश्चित्तकाण्डम् ।
ब्राह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् । शोचन् विनिन्दन्नात्मानं संस्मरन् ब्राह्मणञ्च तम् ॥ चरेद् व्रतं यथोद्दिष्टं देवब्राह्मणपूजकः । एवं दृढव्रतो नित्यं सत्यवादी जितेन्द्रियः || सप्तागाराष्यपूर्वणि यान्यसङ्कल्पितानि च । मञ्चरेत्तानि शनकैर्विधूमे भुक्तवर्जिते ॥ ब्रह्मनो देहि मे भिक्षामेनोऽभिख्याप्य सञ्चरेत् । एककालं चरेद्वैतमलब्धोपवसेद्दिनम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
पत्रं मञ्चरमाणस्तु ब्रह्महत्यां ब्रुवन् सदा । पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति” - इति ॥ ब्रह्मचर्य्यादिनियममाह गौतमः । “खट्टाङ्गी कपालपाणिर्द्वादश संवत्सरान् ब्रह्मचारी भिक्षायै ग्रामं प्रविशेत् कर्माचक्षाणः यथोपक्रामेत्। मन्दर्शनादार्यस्य स्थानासनाभ्यां विहरन् सवनेषूदकस्पर्शो शयेत्”- इति । काश्यपोऽपि
3-
"पवित्रपाणिदण्डी च पचदन्तोरजस्वल: ।
* मुक्तिवर्जितः, - इति शा० स० ।
+ बधोपक्रमेत्, - इति मु० ।
| कण्वोऽपि - इति मु० ।
51
४०१
तीर्थवासी कुशाच्छादी जटिलो ब्रह्महा भवेत् ” - इति ॥ इयं विशुद्धिरकामकृतब्राह्मणबधविषया। तथा च मनुरेतद्द्वादशवार्षिकमुपक्रम्य वहनि व्रतान्यभिधायान्ते निगमयति, -
For Private And Personal Use Only