________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[१२ प.।
आश्रमे वृक्षमूले वा सर्वभूतहिते रतः” इति । कृतवापनो वेति वाशब्देन जटाधारणेन सह विकल्पोऽवगम्यते । अतएव सम्वतः,
"ब्रह्माहा बादशाब्दानि वालवामा* जटौ ध्वजी” इति। लोहितमृण्मयखण्डशरावेण भिक्षा ग्राह्या। तथा चापस्तम्बः । "लोहितकेन मृण्मयखण्डशरावेण भिक्षायै ग्रामं प्रविशेत्” इति । अत्र भृष्टं लभ्यते इति सङ्कल्पमकृत्वा भैक्षमाचरेत् । तदाह वशिष्ठः। "सप्तागाराण्यसङ्कल्पितानि चरबॅचमेककालाहारः” इति। ददश्च भैवमशनविषयम् । तथा च सम्वतः,
"ब्रह्मनस्तु वनं गच्छेदनवासी जटौ ध्वजी। वन्यान्येव फलान्यनन् सर्वकामविवर्जितः ॥ भिक्षार्थों विचरेद्यामं वन्यैर्यदि न जीवति । चातुर्वण्य चरेझै खट्वाङ्गी संयतः पुनः ॥ भैक्षं चैव समादाय वनं गच्छेत्ततः पुनः । वनवासी झपः स्पश्येत् सदाकालमतन्द्रितः ॥ ख्यापयन्त्रात्मनः पापं ब्रह्मानः पापकृत्तमः ।
अनेन तु विधानेन दादशाब्दं व्रतं चरेत्” इति ॥ नियमान्तराण्याह यमः,
"अथ वै ब्रह्माहत्यायां खट्वाङ्गी मितभोजनः । मण्मयेन कपालेन खकर्म ख्यापयंस्तथा ॥
* वल्कवासा,-इति मु. । + श्रावयंस्तथा,-इति शा।
For Private And Personal Use Only