________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ घ.
प्रायश्चित्तकाण्डम् ।
"भर्वस्खं वा वेदविदे ब्राह्मणायोपपादयेत् ।
धनं वा जीवनायालं ग्रहं वा सपरिच्छदम्” इति ॥ अपुत्रस्य सर्वखदानं, मपुत्रस्य सपरिच्छदग्टहदानमिति व्यवस्था। अथान्यमुनिप्रणीतानां व्रतविशेषाण व्यवस्थां वर्णयामः। तत्र याज्ञवल्क्यः,
"शिरःकपाली ध्वजवान् भिक्षाशौ कर्म वेदयन् । ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिमाप्नुयात्”-दति ॥ खव्यापादितब्राह्मण शिरःकपालध्वजवान् । “कृत्वा भवशिरोध्वजम्” इति मनुस्मरणात् । “ब्राह्मणो ब्राह्मणं घातयित्वा तस्यैव शिरकपालमादाय तीर्थान्यनुसञ्चरेत्” इति शातातपस्मरणाच्च । एतदुभयं पाणिनैव ग्राह्यम्, । "खट्टाङ्गपाणि दूति गौतमस्मरणात् । खट्टाङ्गशब्देन दण्डारोपितगिरःकपालात्मको ध्वजो ग्टह्यते । भिक्षार्थं त्वन्यदेव मृत्कपालं ग्राह्यम् । “मृण्मयकपालपाणि: भिक्षायै ग्रामं प्रविशेत्” इति गौतमस्मरणात् । तथा शङ्खोऽपि। "ब्रह्महा परिषदाऽनुमतः खट्टाङ्गी गर्दभाजिनो मृण्मयपात्रपतितभिक्षात्रभोजी स्वकर्मविख्यापनेन* चरे क्षमेककालाहारः शून्यागारनदीपर्वतवृक्षमूलगुहानिकेतनः, सएवं द्वादशवर्षे शुद्धिमाप्नोति" -इति । वनादिवासिना तेन भवितव्यम् । यथाऽऽह मनुः,
"ब्रह्महा बादशाब्दानि कुटौं कृत्वा वने वसेत् । कृतवापनो वा निवसेद् यामान्ते गोब्रजेऽपिवा ||
* स्वकर्म विख्यापयन्,-इति मु० ।
For Private And Personal Use Only