________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
१२ प० ।
प्रायश्चित्तकाण्डम् । उपस्पृशेत् विषवणं महानद्योस्तु सङ्गमे । चौर्णान्ते चैव गांदद्याद् ब्राह्मणान् भोजयेद्दश॥५८॥इति।
यः केनचिनिमित्तेन क्रुद्धः सन् स्वभार्याया अगम्यतां प्रतिजानौयात् ; अतः परं वां न गमिष्यामि त्वं मम माता भगिनौति, पुनरपि कालान्तरे क्रोधोपशमे मति एनां गन्तुं यदि इच्छति, तदा परिषदग्रे खकौयं पापं विनिवेदयेत् । अहं शपथप्रतिज्ञावेलायां ग्रामान्तरगमनेन वा ग्टहव्यापारेण वा श्रान्तासम् । मदीयवचस्युलधिते मति क्रुद्धोऽभूवम् । तस्या अपराधाभावेऽपि तमसा धान्या अन्धः परामर्थरहितोऽभूवम् । बुधा पिपासया राजादिभयेन वा पौडित श्रामम् । अतः श्रमादिदोषप्रयुक्रमिदमगम्यत्वं प्रतिज्ञातं, न त रिवेकपूर्वम् । तस्मादस्य पापस्य प्रायश्चितमनुग्रहन्तु भवन्तः, इति । यश्च दानं करिष्यामौ ति शपथपूर्व प्रतिज्ञाय तयैवाघया समागताय ब्राह्मणाय किमपि न प्रयच्छति । नथा, काशीयात्रादिकं सङ्कल्प्य यथा कथञ्चित्* किञ्चिद्रं गत्वा पश्चादश्रद्धा प्राप्तस्तत् पुण्यं न करोति। तेषु चिषु निमितेषु विप्रैर्निर्दिष्टमिदं प्रायश्चित्तमाचरितव्यम्। द्वयोर्महानद्यो: मङ्गमे गत्वा त्रिषवणस्नानपूर्वकं चिराचोपवासं कुर्यात्, चतुर्थदिने गां दद्यात्, दश ब्राह्मणांश्च भोजयेत्। एतेष्वाद्यनिमित्ते वर्णभेदेन प्रायश्चित्तमाह यमः,
* यथाविधि,-इति मु०। • + तेव्बतीतेध, - इति प्रा० स० ।
For Private And Personal Use Only