________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
___ अथ कृत्स्नवेदाध्ययनं कर्तुमशक्तस्यैकदेशाध्ययनमभ्यनुज्ञातुमध्ययनाभावं निन्दति,-- अग्निकार्यात् परिभ्रष्टाः सन्थ्योपासनवर्जिताः। वेदं चैवानधीयानाः सर्वे ते षलाः स्मताः॥३१॥ इति ।
उभयोः सन्ध्ययोर्ब्रह्मचारिभिः समिदाधानमग्निकार्यम् । तेन ग्रहस्थानामौपासनमप्युपलक्ष्यते। अग्निकार्यादिरहितानां वृषलत्वं शूद्रादिसमानत्वम् ।
कियदंशाध्ययनभभ्यनुजानाति,तस्माइपलभौतेन ब्राह्मणेन विशेषतः।। अध्येतव्योऽप्येकदेशो यदि सर्च न शक्यते ॥३२॥ इति।
न चाध्ययनन्यायेनाग्निकार्य्यसन्ध्योपासनयोरप्येकदेशानुष्ठानं शङ्कनौयम् । प्रयासरहितत्वेन तयोरशक्त्यसम्भवात् । क्वचित्तदर्जनस्य नास्तिक्यान्नस्यादिमूलकत्वात् । । वृषलभौतेन वृषलवाद्भौतेनेत्यर्थः । अथ शूट्रान्न प्रतिषेधति,शूद्रानरसपुष्टस्याप्यधीयानस्य नित्यशः । जपतोजुह्वतावाऽपि गतिरूह्य न विद्यते ॥३३॥ इति ।
* शूद्रादिसमानत्वम्, इति नास्ति मु° पुस्तके । + नास्तिक्या दिमूलकत्वात्,-इति मु० । | पुरम्य ह्यधीयानस्य,- इति मु.।
For Private And Personal Use Only