________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः ।
[१२ अ.
नान्यदा निशोत्ययं निषेधो दानव स्वानेऽप्यस्तोत्यभ्यपेत्य पूर्वपश्चिमयामयोः स्वानस्य प्रतिप्रसवमाह,-- महानिशा तु विज्ञेया मध्यस्थप्रहरदयम् । प्रदोषपश्चिमौ यामौ दिनवत् सानमाचरेत् ॥२६॥इति।
निशिनिषेधो महानिशाविषयः। महानिशाशब्दश्च द्वितीयतृतीययामावभिधत्ते । तथाच मति प्रथमचतुर्थयामौ दिनवत् मानादियोग्यौ । तस्मात्तत्र स्नानादिकमाचरेत् । एतच्चापद्विषयम् । अन्यथा भास्करस्य करैरित्यनेन विरुडोत । काम्यनैमित्तिके स्नाने तु महानिशाऽपि न निषिध्यते । तदाह देवलः,
"महानिगा तु विज्ञेया मध्यस्थं प्रहरदयम् ।
तत्र स्नानं न कुर्वीत काग्यनैमित्तिकादृते"-इति । रात्रौ स्नानस्य निमित्तं राहुदर्शनं पूर्वमुक्तम् । इदानौं निमित्तान्तराण्याह,चैत्यक्षश्चिति!पश्चण्डालः सोमविक्रयो। एतांस्तु ब्राह्मणः स्पृष्ट्वा सवासाजलमाविशेत्॥२७॥ इति।
चिते-ग्यं श्मशानस्थानं चैत्यम् । तत्र समारोपितोवृक्षः चैत्यक्षः । चित्यादय: प्रमिद्धाः । तेषां स्पर्शनं स्नाननिमित्तं, तयदि कथञ्चित् रात्रौ सम्पद्यते, तदा रात्रावपि स्नातव्यमित्यभिप्रायः।
स्नानम्य निमित्तान्तरमाह,
For Private And Personal Use Only