SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ घ० ] प्रायवित्तकाण्डम् । ३७५ ३७५ .. खानदृष्टान्तेन दानादौनामपि प्रतिप्रसवमाह,नानं दानं जपोहोमः कर्त्तव्योराहुदर्शने । अन्यदा त्वशुचौराचिस्तस्मात्ता परिवर्जयेत् ॥२२॥ इति। ___ यद्यपि रात्रौ दानादिप्रतिषेधो न मूलवचने प्रस्तुतः, तथापि शास्त्रान्तरसिद्धं प्रतिषेधं हदि निधायायं प्रतिप्रसव इति द्रष्टव्यम् । अन्यदा राहुदर्शनरहिते काले रात्रिः स्नानादिवशुचिः, तस्मात् खानादिकं चिकीर्षुस्तां रात्रि परिवर्जयेत् । सोमग्रहणकालस्य दानाद्यर्हत्वमुपपादयति,मारुतो वसवो रुद्रा श्रादित्याश्चैव देवताः। सर्वे सेामे प्रलीयन्ते तस्माहानन्तु संग्रहे ॥२३॥ इति। राहुदर्शनदव खलथज्ञादावपि रात्रिदानमभ्यनुजानाति,खलयज्ञे विवाहे च संक्रान्तौ ग्रहणे तथा । शवयां दानमस्त्येव नान्यचैवं विधीयते ॥२४॥ इति । __ पुनरपि राहुदर्शनं दृष्टान्तेनोदाहृत्य पुत्रजन्मादौ रात्रिदानमभ्यनुजानाति,पुत्रजन्मनि यज्ञे च तथा चात्ययकर्मणि । राहोश्च दर्शने दानं प्रशस्तं नान्यदा निशि ॥२५॥ इति। प्रत्ययकर्म मरणम् । तस्मिन् प्रस्तुते सति गोदानतिलपात्रादिदानं निश्यपि कर्त्तव्यम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy