________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
३७४
[१२ प.। जले स्थलस्थो नाचामेत् जलस्थश्च वहिः स्थले । उभे स्पृष्ट्वा समाचान्त उभयच शुचिर्भवेत् ॥१७॥ इति। __ योहि पद्भ्यां जलमस्पृष्ट्वा शुद्धस्थलएवोपविश्य प्रकोजाएव विन्दून् पातयन्नाचमति, स जलस्थलयोरुभयोर्न पाड्यति। यश्च तदैपरौत्येन जले पाददयमवस्थाप्य स्थले विन्दून् पातयनाचामति, मोऽपि नोभयच शड्यति। अतस्तथा नाचान्तव्यं, किन्त्वेकेन पादेन स्थलमपरेण जलं स्पष्वा समाचामेत् । तथा चोभयत्र शुद्ध्यति । एतम स्नात्वा य आर्द्रवस्त्रस्त विषयम्।
द्विराचमननिमित्तान्याह,-- सात्वा पौत्वा क्षुते सुप्ते भुत्वा रथ्याप्रसर्पणे। आचान्तः पुनराचामेहासाविपरिधाय च ॥१८॥ इति।
धाचमनप्रतिनिधित्वेन श्रोत्रस्पर्श निमित्तान्याह,क्षते निष्ठीवने चैव दन्तोच्छिष्टे तथाऽन्ते। पतितानाच समभाषे दक्षिणं श्रवणं स्पृशेत् ॥१६॥ इति ।
श्रोत्रस्पर्शस्य शुद्धिहेतृत्वमुपपादयति,अमिरापश्च वेदाश्च सोमर्यानिलास्तथा । सर्वएव तु विप्रस्य श्रोचे तिष्ठन्ति दक्षिणे ॥२०॥ इति । __ अरुणोदयात् पूर्व स्नानं निषेधति,भास्करस्य करैः पूतं दिवासानं प्रशस्यते । अप्रशस्तं निशि स्वानं राहोरन्यच दर्शनात् ॥२१॥ इति।
ग्रहणखाने रात्रिखानस्य प्रतिप्रसवं विवक्षित्वा राहोरन्यत्र दर्श.. नादित्युकम्।
For Private And Personal Use Only