________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
प्रायश्चित्तकाण्डम् |
१२ अ० ।]
तर्पणवेलायां तिलाः पाणितले विलोमप्रदेशे पात्रान्तरे वा स्थापनीयाः, न तु सलोम्निपाणिपृष्ठे, - इत्यभिप्रेत्य तत्र स्थापने प्रत्यवायमाह, - रोमकूपेष्ववस्थाप्य यस्तिलैस्तर्पयेत् पितॄन् । तर्पितास्तेन ते सर्वे रुधिरेण भलेन च ॥ १४ ॥ इति ।
Acharya Shri Kailassagarsuri Gyanmandir
श्रस्मिन्नर्थे देवलवचनं पूर्व्वमुदाहृतम् ।
स्नानवेलायां केशधूननादि प्रतिषेधति - अवधूनोति यः केशान् स्नात्वा प्रस्रवतेोद्दिजः * । आचामेदा जलस्थोऽपि स वाह्यः पितृ दैवतैः ॥ १५ ॥ इति ।
३७३
स्वात्वेत्येतत्पदं काकादिवदुभयतः सम्बड्यते । तथा च सति यः खानानन्तरमाद्रीन् केशानवधुनुयात्, यश्च स्वानानन्तरमार्द्रवस्त्रो मलमूत्रे विसृजेत् यश्च नद्यादावस्वानकाले जलमध्ये स्थित्वा श्रचामेत् स त्रिविधोऽपि पुरुषः पिटभिः दैवतैश्च वाह्यः कृतः । पेटकं दैविकं चानुष्ठानमनुष्ठातुमनई इत्यर्थः ।
श्राचमनकाले शिरःप्रावरणादीनि निषेधति, - शिरः प्रावृत्त्य कण्ठं वा मुक्तकच्छशिखाऽपि वा । विना यज्ञोपवौतेन श्रचान्तोऽप्यशुचिर्भवेत् ॥ १६ ॥ इति ।
G+
वस्त्रेण शिरः कण्ठं वा प्रानृत्य नाचामेत् । तथा, मुक्तकच्छावा मुक्तशिखो वा यज्ञोपवीतरहितो वा नाचामेत् ।
श्राचमने नियमान्तरमाह,
For Private And Personal Use Only
* इत्यमेव पाठः सर्व्वत्र । परन्तु, “यश्च स्वानानन्तरमाई वस्त्रोमलमूत्रे विस्टजेत्”-- इति व्याख्यादर्शनात्, प्रखवते दिजः - इति पाठव समीचीनः प्रतिभाति ।