SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७२ पराशरमाधवः। [१२ प.। तज्ज्ञः मम्पादयेत् स्वानं शिव्याय च सुताय च । दाक्षायणमयैः कुम्भमन्त्रवज्जाहवौजलैः ॥ कृतमङ्गलपुण्याहैः स्नानमस्तु तदर्थनाम् । श्रादौ तावत् प्रभासे बहुगुणमलिले मध्यमे पुष्करे वा गङ्गाद्वारे प्रयागे कनखलसहिते भद्रकणे गयायाम् । राहग्रस्ते च सोमे दिनकरसहिते सन्निपात्यां विशेषादेतैर्विख्याततौस्त्रिभुवनविदितैः स्वानमच्छिद्रमस्तु” इति । एतेषु सप्तधु खानेषु वारुणं मुख्यमितराणि षड्गौणनि । मुख्यगौणभेदेन शङ्खवचनमाचारकाण्डएवोदाहतम् । तत्र गौणस्वानान्यशक्तविषयानि । तदुक्तं कूर्मपुराणे,-- "प्रायत्ये समुत्पन्ने वानमेवं समाचरेत् । ब्राह्मादीनि तथाऽशको स्वानान्याहुमनौषिणः” इति। वारुणमाने तर्पणस्य पूर्वभाविवं वस्त्रनिष्पौड़नस्योत्तरभावित्वमुपपत्तिपुरःसरं विदधाति,सातुं यान्तं हिजं सर्वे देवाः पिढगणैः सह । वायभूतास्तु गच्छन्ति तृष्णार्ताः सलिलार्थिनः ॥१२॥ निराशास्ते निवर्तन्ते वस्त्रनिष्पौड़ने कृते । तस्मान्न पौड़येहस्त्रमकत्वा पितृतर्पणम् ॥१३॥ इति । स्वातुं गच्छन्तं येऽनुगच्छन्ति, ते सर्वं पूर्व वस्त्रे निष्पौड़िते मति निराशाः गच्छन्ति, इत्येवोपपत्तिः। अस्मिन्नर्थ योगियाजवस्क्यादिस्मत्यन्तरवचनानि पूर्वमेवोहतानि । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy