________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ व्य
प्रायश्चित्त काण्डम् ।
त्रिरात्रं वाऽप्युपवसेन्नित्यं स्निग्धेन वासमा ॥ प्राणानात्मनि संयम्य चिः पठेदघमर्षणम् । अपिवैतेन कन्पेन गायत्रौं परिवर्तयेत् ॥
अपिवाऽग्निं समाधाय कुभाण्डेर्जुहुयातम्” इति ॥ तत्र जपाहोमो विवद्विषयौ कल्पनौयौ । द्वादशरात्रत्रिरात्रौ त्वविदिचये प्रकाशनभेदेन व्यवस्थापनोयो । __ मूलवचने प्रव्रज्याशब्देन पूर्व महाप्रस्थानगमनं व्याख्यातम् । अथवा परिव्रज्या तेन विवक्ष्यते । तथाच मति परिव्रज्यातः प्रच्युतस्य ब्राह्मणस्य प्रायश्चित्तमुक्तं भवति । तदिदं श्रद्धालोः पुनरुपनयनादिपुरःसरं पारिव्रज्यं जिक्षोर्वेदितव्यम् । यस्तु पुनः पारिव्रज्यं न जिक्षति, तस्य मरणान्तं राजदासत्वादिकम् । अत्र नारदः,
“राज्ञएव तु दासः स्यात् प्रव्रज्याऽवसितोदिजः ।
न तस्य प्रतिशोधोऽस्ति न विशुद्धिः कथञ्चन"-दति।। कात्यायनः,
"प्रव्रज्याऽवमिता यत्र त्रयोवर्णा दिजातयः । निर्वामं कारयेदिप्रं दास्यं क्षविशोर्नप:'--इति । दक्षः,
"पारिव्रज्यं ग्टहीत्वा तु यः स्वधर्म न तिष्ठति ।
श्वपदेनाङ्कयित्वा तं राज्याच्छौघ्र प्रवासयेत्" इति । याज्ञवल्क्यः,
"प्रव्रज्याऽवमितो राज्ञोदाम: स्यात् मरणान्तिकम्” इति ।
* प्राजापत्यं प्रायश्चित्तभुक्तं भवति.-इति मु. ।
For Private And Personal Use Only