________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः ।
[१२ प० ।
अात्महननाद्यमेन ब्राह्मणत्वमपगतं, चण्डालत्वमायातम् । पुनर्वताचरणेन चण्डालत्वनिवृत्तौ पुनः पूर्वसिद्धं ब्राह्मण्यं प्रतिपद्यते । तदाह वृद्धपराशरः,--
"अनाशकानिवृत्तस्तु चातुर्वण्यव्यवस्थितः । चण्डालः स तु विज्ञेया वर्जनौय: प्रयत्नतः ॥ लुप्तधर्मास्तु चण्डालाः परिबाजकतापमाः । तेभ्योजातान्यपत्यानि चण्डालैः सह वासयेत् ॥ जलाग्निपतने चैव प्रव्रज्याऽनशाने तथा । प्रत्यावसितवर्णानां प्रायश्चित्तं कथं भवेत् ॥ ब्राह्मणानां प्रमादेन तीर्थाभिगमनेन च। गवाञ्च दशदानेन वर्णाः ड्यन्ति ते त्रयः ॥ ब्राह्मणस्य प्रवक्ष्यामि गत्वाऽरण्यं चतुष्पथम् । मशिखं वपनं कृत्वा त्रिसन्ध्यमवगाहनम् ॥ सावित्र्यष्टसहस्रन्तु जपेचैव दिने दिने । मुच्यते सर्वपापेभ्यो ब्राह्मणत्वञ्च गच्छति ॥ भैक्षार्थी विचरेद् ग्राम ग्रहान् सप्त वने वसन् ।
तां च भिक्षां ममत्रीयादब्दार्द्धन विराड्यति"-दति ॥ अत्रैव व्रतान्तराण्याह वसिष्ठः,--
"जीवनात्मत्यागौ इच्छं द्वादशरात्रं चरेत् । * प्रवादेन,-इति मु। + शतदानेन,-इति शा० । 1 दत्तां,-इति मु.।
For Private And Personal Use Only