SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ ५० प्रायश्चित्तकाण्डम् । प्राक्रोशादौ शङ्खलिखितावाहतुः । “आक्रोशेऽनृतवादे वा एकरात्रं चिरात्रं चोपवासः”-इति। सुमन्तुः। “देवर्षिगोब्राह्मणाचार्यमापिटनरेन्द्राणां प्रतिषेधने श्राक्रोशने जिहां दहेद्धिरण्यं दद्यात्" -इति। अतिकच्छं च रुधिरे, इत्युक्रम्। कोऽसावतिकच्छ्रः? इत्याकालायां तत्खरूपमाह,नवाहमतिकृच्छ्रः* स्यात् पाणिपूरानभाजनः ॥५४॥ चिराचमुपवासः स्यादतिकृच्छ्रः स उच्यते । इति । अतिकृच्छ्रमाचरन् विप्रस्त्रिरावृत्तकभननकायाचितदिनेषु नवसु यावता पाणि: पूर्यते तावदेव मुनौत, उपवासदिनेषु प्राजापत्यवदुपवासमेव चरेत् । मोऽयमतिकृच्छ्र इत्युच्यते । एतदेवाभिप्रेत्य याज्ञवसक्यः प्राजापत्यमुपदिश्य तस्यैव गुणविरुतित्वेनातिहळू निर्दिशति, "श्रयमेवातिकृच्छ्रः स्यात् पाणिपूरानभोजने” इति । गौतमोऽपि प्राजापत्यं प्रपश्यानन्तरमाहाँ । “एतेनेवातिकच्छ्रोव्याख्यातो यत् महदाददीत तावदनीयात्” इति। यदा, नैरन्तर्याण नवसु दिनेषु पाणिपूरान्नं भुक्का त्रिषु दिनेषु उपरवसेत्। नदाह यमः* इत्यमेव पाठः सर्वत्र । मम तु, नवाहमतिकृळे,-इति पाठः प्रतिभाति। + प्राजापत्यव्रतानन्तरमाह,-इति मु.॥ + मनुः,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy