________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५७
पराशरमाधव:।
[११ प.।
"श्रवगूर्य त्वब्दशतं सहस्रमभिहत्य तु । जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ शोणितं यावतः पांशून् संग्रहीयादिजन्मनः । तावन्यब्दसहस्राणि तत्कर्ता नरके वसेत् ॥ अवगूर्य चरेत् कृच्छ्रमतिकच्छं निपातने ।
छातिकच्छौ कुवौंत विप्रस्थोत्पाद्य शोणितम्" इति । याज्ञवल्क्योऽपि,
"विपदण्डोद्यमे कृच्छ्रमतिकच्छं निपातने ।
मच्छातिकच्छ्रोऽसूक्पाते कृच्छ्रोऽभ्यन्तरशोणिते"-इति । यमः,
"ताड़ने च्छेदने चैव शोणितस्य प्रवर्त्तने । हाच्छातिको कुर्वीत चान्द्रायणमथाचरेत्।
दशसंख्याच गादधुरङ्गच्छेदो यदा भवेत्” इति । वृहस्पतिः,
"काष्ठादिना ताडयित्वा त्वग्भेदे कृच्छ्रमाचरेत् ।
अस्थिभेदेऽतिकच्छस्तु पराकस्वङ्गकर्तने"-इति । पैठौनसिरपि। “वकारहङ्कारावगोरणमिपातनलोहितप्रवर्त्तनोतरजयेषु प्रणिपत्यैकरात्रोपवासाच्छातिकच्छच्चरित्ला प्रसादयेत् यथासंख्यम्" इति । एतत् सर्व सजातीयविषयम्। विजातीये तु प्रजापतिराह,
"द्विगुणं त्रिगुणं चैव चतुर्गुणमथापिवा । चत्रविशद्रजातौनां ब्राह्मणस्य बधे व्रतम्” इति ।
For Private And Personal Use Only