________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
[११ प.।
“एकैकं पिण्डमनीयात् व्यहं कल्ये अहं निशि । अयाचितस्त्यहं चैव वायुभक्षः परं अहम् ॥
अतिकृच्छं चरेदेतत् पवित्रं पापनाशनम्” इति ॥ अतिमानादतिक्रोधादित्यारभ्य कृच्छोऽभ्यन्तरशोणिते, इत्यन्तेस्वष्टस्खध्यायेषु नानाविधान् पापविशेषाननूद्य प्रायश्चित्तविशेषा निरूपिताः । यानि त्वन्यानि प्रतिपदोकप्रायश्चित्तरहितानि, तेषां माधारणं प्रायश्चित्तमाह,सर्वेषामेव पापानां सङ्करे समुपस्थिते॥ ५५ ॥ दशसाहस्रमभ्यस्ता गायची शोधनं परम् । इति ।
श्रयश्च गायत्रीजपः प्राजापत्यादीनामुपलक्षकः । तानि च प्रतिपदोकप्रायश्चित्तव्यतिरिक्तानि प्रतानि मुनिभिः प्रपञ्चितानि । तत्र मनुविष्णुविश्वामित्राः,
"अनुक्रनिष्कृतौनान्तु पापानामपनुत्तये ।
शक्ति चावेक्ष्य पापञ्च प्रायश्चित्तं प्रकल्पयेत्” इति । याज्ञवल्क्यः,
"देशं कालं वयः शक्तिं पापं गावेक्ष्य यत्नतः ।
प्रायश्चित्तं प्रकल्प्यं स्याद् यत्र चोक्का न निष्कृतिः” इति। मङ्खलिखितौ। "क्रयविक्रयदुष्टभोजनप्रतिग्रहेष्वनादिष्टप्रायश्चित्तेषु सर्वेषु चान्द्रायणं प्राजापत्यञ्च”-दति। स्मृत्यन्तरे,
“भक्ष्याभक्ष्याण्यनेकानि ब्राह्मणनां विशेषतः । तत्र शिष्टा यथा ब्रूयुम्तत्कर्त्तव्यमिति स्मृतिः" इति।
For Private And Personal Use Only