________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
૨૫ ૪
[११ अ० ।
कलौ युगे तादृशं विप्रं कश्चिदप्युपलभामहे । तथा, ब्रह्मचारिप्रकरणे तदाश्रमधर्मी अध्ययनधर्माश्च सहस्रशः स्मर्य्यन्ते । न च तान् सर्व्वान् यथावदनुतिष्ठन्माणवकः कोऽप्युपलभ्यते । यदाऽध्ययनस्यैव ईदृशी गतिः, तदा केव कथा साङ्गकृतवेदार्थानुष्ठानस्य । तथा सति शास्त्रीयमुख्यब्राह्मष्योपेतस्य कस्याप्यभावात् चत्रियवेभ्यजात्योस स्वरूपेणैवोच्छिन्नत्वात्, शुश्रूषयितव्यानां द्विजानामसम्भवे तत् शुश्रूषकस्य मुख्यस्य शूद्रस्यात्यन्तमनाशङ्कनीयत्वात् (१), किं चातुर्वर्ण्यमुद्दिम्य प्रवृत्तं धर्मशास्त्रं स्वरूपेणैव लुप्यतां, किं वा मुख्यासम्भवेऽपि यथासम्भवं चातुर्व्वर्ण्यमाश्रित्य धर्मशास्त्रं प्रवर्त्ततामिति मौमांसायां, स्वरूपलोपाद्दरं यथासम्भवानुष्ठानमित्यभिप्रेत्य युगप्रवृत्तां सर्वेरप्य• वर्जनौयामधर्मप्रवृत्तिमदोषत्वेनाभ्युपगम्य, तेषां निन्दा न कर्त्तव्या, -- इत्युक्रम् । ततः सम्भाविताध्ययनाद्युपेतानां शक्यायां धर्मप्रवृत्तौ प्रमादालस्यादिरहितानाञ्च परिषत्त्वं कुतो न स्यात् । कृतप्रायश्चि तस्य पुनः प्रमादालस्यादिवर्जनस्य सुकरत्वात् प्रायश्चित्तशास्त्रञ्च सार्थकमिति ।
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
सन्देहे, अक्षरग्रहणमात्रपरत्वे विश्वजिनप्रायेन स्वर्गएव तत्फलं वाच्यम् । निष्फले प्रवृत्त्यनुपपत्तेः । तथा चादृष्टार्थत्वापत्तिः । तस्मादर्थावगतिपर्यन्तमेवाध्ययनम् । तत्रार्थावगतिस्तु दृष्टमेव फलमिति नादृष्टकल्पनादोषः । स्पष्टमिदं स्वकृत जैमिनीयन्यायमालाविस्तरे प्रथमाधिकरणएव ।
(१) द्विजश्रयैव शूद्राणां मुख्यत्वम् । दिजाएव तु यदा केचिन्मुख्या न सन्ति केचिच खरूपेणैवोच्छिन्नाः, तदा तच्छुश्रूषकरूपस्य मुख्यशूद्रस्य सद्भावः शङ्कितुमपि न शक्यइति भावः ।
For Private And Personal Use Only