________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ अ.]
प्रायश्चित्तकाण्डम् ।
३५३
वेदविक्रयिण: स्वरूपमाह शातातपः,
"प्रख्यापनं प्रत्ययनं प्रश्नपूर्वः प्रतिग्रहः ।
याजनाध्यापने वादः षड्विधो वेदविक्रयः"--इति । ननूकरीत्या कलियुगे सर्वेप्यभोज्याना अभक्ष्यभक्षणाच; तथा सत्येतद्विषयं प्रायश्चित्तशास्त्र निरर्थक, कृतेऽपि प्रायश्चित्ते पुनरपि तत्प्रत्तेः परिहर्तमशक्यत्वात् । प्रायश्चित्तविधायिकायाः परिषदोऽसंभवाच्च । न हि पापप्रवृत्तानां परिषत्त्वं युक्र, स्वकर्मरतविप्राणामिति तलक्षणत् । न चाभक्ष्यभक्षणादिभ्यः पापेभ्यो निवृत्तानां शिष्टानां परिषत्त्वं स्यादिति शङ्कनौयम्। तादृशस्य पुरुषस्य कस्याप्यदृष्टचरत्वात् । अतः कलियुगे सर्वेषां निन्द्यत्वादेतदेव युगमुद्धिश्य प्रवृत्तस्य पराशरधर्मशास्त्रस्य निर्विषयत्वादित्याशङ्याह',युगे युगे तु ये धर्मास्तेषु तेषु च ये विजाः ॥५०॥ तेषां निन्दा न कर्त्तव्या युगरूपा हि ते विजाः। इति॥
अस्याक्षरार्थः प्रथमाध्याये वर्णितः। श्रयमाशयः। द्विविधा अधर्मप्रवृत्तिः; युगप्रयुका, प्रमादालस्यादिप्रयुक्ता च । तत्र युगप्रयुकायाः प्रवृत्तेरपरिहार्यत्वान तनिहत्तये पराशरस्योद्यमः । या तु प्रमादालस्यादिप्रयुक्ता प्रवृत्तिः, तब सावकाशं धर्मशास्त्रम् । तद्यथा। अध्ययनविधिस्तावदर्थज्ञानपर्यन्तमाङ्गवेदपाठमाचष्टे(१) । न च * इत्यमेव पाठः सर्वेषु पुस्तकेधु । मम तु, निर्विषयत्वमित्याश
याह,-इति पाठः प्रतिभाति । + दर्थज्ञानानुष्ठानपर्यन्तं,-इति शा० । (१) "खाध्यायोऽध्येतव्यः” इति तावदध्ययनविधिरस्ति। तच्चाध्ययनं
किमक्षा ग्रहणमात्ररूपं, किं वाऽर्थावगतिपर्यन्तपर्यवसितमिति
For Private And Personal Use Only