________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५९
पराशरमाधवः।
[११ मा
__ यस्तु विप्रोविधानेन गाईस्थं स्वीकृत्य अन्नदानादिवर्जितः केवलं स्वयमेव भुते, मोऽपच इत्युच्यते । तस्य निन्दा प्रत्यक्षश्रुतावाचायते,
“नार्यमणं पुष्यति नो सखायं
केवलाघो भरति केवलादी"--इति । ददातिपरिवर्जितः, इत्यत्र ददातीत्यर्थनिर्देशत्वादानक्रियामाचष्टे । “ईचते शब्दम् (वे० ११० १पा० ५सू०)"-इत्यस्मिन् व्याससूत्रे, “यजतेः पूर्ववत्त्वम् (मौ० ७० ४ पा० १सू."--इत्यस्मिन् जैमिनिसूत्रे चार्थनिर्देशेऽपि स्तिप्प्रत्ययप्रयोगदर्शनात् । "स्तिपोधातनिर्देशे"-दूत्येतत्तु वाररुचं वार्तिकं प्रचुरप्रयोगाभिप्रायं, न त्वर्थनिर्देव्यवच्छेदकम् ।
परपाकनिवृत्तादिवथापाकादेरप्यत्रं न भोक्रव्यम् । तदोजने तु प्रायश्चित्तं कर्त्तव्यम् । तदाहतुः गातातपसहस्पती,--
“योग्टहीत्वा विवाहाग्निं ग्रहस्थ इति मन्यते । अचं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः ॥ वृथापाकस्य भुत्वाऽन्नं प्रायश्चित्तं चरेद् दिजः ।
प्राणायामन्त्रिरभ्यस्य तं प्राश्य विशयति"--इति । प्राणायामशतकत्वेति पाठे त्वावृत्तिविषयत्वं कल्पनीयम्। वृथापाके यत्प्रायश्चित्तं, तदेव ब्राह्मणनिन्दकादावपि द्रष्टव्यम्। निन्दावचने सहपाठात् । तथाच व्यासः,--
"पशिभेदी वृथापाको नित्यं ब्राह्मणनिन्दकः । आदेशो वेदविक्रेता पञ्चैते ब्रह्मघातकाः"--इति।
For Private And Personal Use Only