SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ ० प्रायश्चित्तकाण्डम् । ३५१ परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः । पञ्चयज्ञान स्वयं कृत्वा परान्नेनोपजीवति ॥४८॥ सततं प्रातरुत्थाय* परपाकरतस्तु सः । गृहस्थधर्मों या विमो ददातिपरिवर्जितः ॥४६॥ ऋषिभिर्धर्मतत्त्वज्ञैरपचः परिकीर्तितः । इति॥ परस्य पुरुषान्तरस्य ग्टहे क्रियमाण: पाकः परपाकः । तम्मानिवृत्तः, परपाकनिवृत्तः । परान्नभोजनपरित्यागौति यावत् । यद्या, वैश्वदेवाद्ययं क्रियमाण: पाक उत्कृष्टत्वात् परपाक इत्यच्यते। तस्मात् परपाका निवृत्तः, पञ्चमहायज्ञरहित इत्यर्थः । तच्चोभयं, विवक्षितत्वात्तन्त्रणाचरितम् । तथाच मति परान्नवर्जनस्य गुणत्वेऽपि पञ्चमहायजादिराहित्यस्य दोषत्वादस्य पुरुषस्य निन्द्यत्वम् । अक्षरार्थस्तु, अग्निं ग्टहीत्वा विवाहं कृत्वा स्मार्त्तानो केवलमौपासनं कृत्वा तमात्मनि समारोपयति, न तु तस्मिन्ननौ वैश्वदेवादिक करोति । भोऽयं वैश्वदेवाद्यनुष्ठानरहितः पुरुषोऽत्र परपाकशब्देन विचितः । एतस्मा दिपरोतः परपाकरतः, उभयविधपरयाकरतत्वात् । तत्र पञ्चमहायज्ञानुष्ठानस्य गुणत्वेऽपि परान्नभोजनस्य दोषत्वात्तादृशम्य पुरुषम्य निन्द्यत्वम् । प्रतिदिन प्रातरुत्थाय यथाविधि पञ्चमहायज्ञान् कृत्वा परान्नेनोपजीवतोति योजनीयम् । * परपाकाशी,-इति शा० । विवाहं कृत्वा आत्मनि,-इति शा० स० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy